सामग्री पर जाएँ

कर्णशूलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्णशूलः, पुं, (कर्णस्य शूलः शूलवत् यन्त्रणादायकः ।) कर्णरोगविशेषः । तस्यौषधं यथा, -- “हिङ्गुतुम्बुरुशुण्ठ्या च साध्यं तैलन्तु सार्षपम् । एतद्धि पूरणं श्रेष्ठं कर्णशूलापहं परम् ॥ १ ॥ शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् । शुक्लं चतुर्गुणं दद्यात्तैलमेतैर्व्विपाचयेत् ॥ बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः । कृमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥ २ ॥ शुष्कमूलकशुष्ठीनां क्षारो हिङ्गुलनागरम् । शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम् ॥ सौवर्च्चलं यवक्षारं सामुद्रं सैन्धवं तथा । भुजग्रन्थि विडं मुस्तं मधु शुक्रञ्चतुर्गुणम् ॥ मातुलुङ्गरसञ्चैव कदलीरसमेव च । तैलमेभिर्व्विपक्तव्यं कर्णशूलापहं परम् ॥ बाधिर्य्यं कर्णनादश्च पूयस्रावश्च दारुणः । पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः ॥ क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! । क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ॥ ३ ॥ प्रस्थे द्वे गण्डमालानां क्वाथयेत् द्रोणमम्भसाम् । चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥ काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् । पुनर्णवा गोक्षुरकं सैन्धवं त्र्युषणं वचा ॥ सरलं सुरदारुश्च वृहती कण्टकारिका । नस्यपानाद्धरत्येव कर्णशूलं हनुग्रहम् ॥ बाधिर्य्यं सर्व्वरोगांश्च अभ्यङ्गाच्च महेश्वर !” ॥ ४ । इति गारुडे १९८ अध्यायः ॥ (कर्णरोगशब्देऽस्य विवरणं ज्ञेयम् ॥)

"https://sa.wiktionary.org/w/index.php?title=कर्णशूलः&oldid=124554" इत्यस्माद् प्रतिप्राप्तम्