कर्णसंस्रावः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्णसंस्रावः, पुं, (कर्णस्य कंर्णयोर्वा संस्रावः पूय- शोणितादेः निःस्रावणम् यत्र रोगे ।) कर्ण- रोगविशेषः । तस्य निदानसम्प्राप्तिरूपाणि । “शिरोऽभिघातादथवा निमज्जतो जले प्रपाकादथवापि विद्रधेः । स्रवेद्धि पूयं श्रवणोऽनिलार्द्दितः सकर्णसंस्राव इति प्रकीर्त्तितः” ॥ इति माधवकरः ॥
