सामग्री पर जाएँ

कर्त्तृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्त्ता, [ऋ] त्रि, (करोति क्रिया निष्पादयतीति वा । करोति यः कर्म्मेति शेषः । कृ + कर्त्तरि तृच् ।) कारकः । इति मेदिनी ॥ षट्कारकान्तर्गतकारक- विशेषः । वोपदेवेनास्य घसंज्ञा कृता । अत्र उक्तार्थे प्रथमा अनुक्तार्थे तृतीया विभक्तिर्भवति ॥ तस्य लक्षणम् । “क्रियानुकूलकृतिमत्त्वम्” । इति सारमञ्जरी ॥ “यः करोति सः” । इति सर्व्ववर्म्मा ॥ “कृत्याश्रयः” । इति तार्किकाः ॥ “चेतनान्तरव्या- पाराव्यवधानेन धात्वर्थनिष्पादकश्चेतनः कर्म्मकर- णादिकारकचक्रप्रयोक्ता वा” । इति प्रायश्चित्तवि- वेकः ॥ “क्रियामुख्यप्रयोजकौ कर्त्ता” । इति क्रम- दीश्वरः ॥ स तु पञ्चविधः । क्रियामुख्यः १ हेतुकर्त्ता २ प्रयोजकः ३ अनुमन्ता ४ ग्रहीता ५ । तथा च । “क्रियामुख्यो भवेत् कर्त्ता हेतुकर्त्ता प्रयोजकः । अनुमन्ता ग्रहीता च कर्त्ता पञ्चविधः स्मृतः” । इति गोयीचन्द्रटीकाकृद्गोपालचक्रवर्त्ती ॥ स च त्रिविधः । सात्त्विकः १ राजसः २ तामसः ३ । सात्त्विको यथा, -- “मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्त्ता सात्त्विक उच्यते” ॥ राजसो यथा, -- “रागी कर्म्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः” ॥ तामसो यथा, -- “अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः । विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते” ॥ इति श्रीभगवद्गीता । १८ । २६-२८ ॥

कर्त्ता, [ऋ] पुं, (करोति सृजति चतुर्द्दशभुवनानि यः सर्व्वलोकस्रष्टेति यावत् । कृ + तृच् ।) पर- मेष्ठी । ब्रह्मा । इति मेदिनी ॥ क्रियानुकूलकृति- मान् । स च त्रिविधः । यथा, -- “त्रिधैव ज्ञायते कर्त्ता विशेषेण प्रतिक्रियाम् । योग्यत्वप्रतिषिद्धत्वविशेषणपदान्वयैः” ॥ अस्यार्थः । क्रियां प्रति प्रकारत्रयेण कर्त्ता विज्ञा- यते तस्य विवरणम् । स्वाध्यायोऽध्येतव्य इत्यत्र योग्यत्वेन लब्धविद्यस्त्रैवर्णिकः ॥ १ ॥ अहरहर्दद्यात् दीक्षितो न ददातीत्यत्र प्रतिषिद्धत्वेन दीक्षिते- तरपरः ॥ २ ॥ स्वर्गकामो यजेतेत्यत्र विशेषण- पदान्वयेन स्वर्गकामः कर्त्ता ज्ञायते ॥ ३ ॥ * ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्त्तृ¦ त्रि॰ कृ--तृन् तृच् वा।

१ क्रियानिष्पादके क्रियोत्-पादकयत्नयुक्ते तृजन्तयोगकर्मणि न षष्ठीतिभेदः। स चकारकचक्रप्रयोजत्वात् स्वतन्त्रः यथाह पा॰
“स्वतन्त्रःर्कत्ता”।
“क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः। कर्त्तास्यात्” सि॰ कौ॰। व्य कृतञ्चैतदस्याभिः सरलायाम् यथा
“स्वतन्त्रैति शप्श्यनादिप्रत्ययसमभिव्याहृतधातूपा-त्तप्रधानीभूतव्यापाराश्रयत्वमितरव्यापारानधीनव्यापारव-त्त्वम् वा कर्त्तृत्वं बोध्यम् कर्मबोधकप्रत्ययसमभिव्या-हारे फलस्यैव प्रधानतया बोधस्वीकर्त्तृमते कर्मादि-व्यावृत्त्यर्थं शप्श्यनादिसभिव्य हृतेति। णिजन्तस्थलेप्रयोज्यस्य स्वातन्त्र्यवारणाय प्रधानव्यापारेति। हरिणा तु स्वातन्त्र्ये विशेषो दर्शितो यथा।
“धातृ-पात्तिक्रिये नित्यं कारके कर्त्तृतेष्यते” इति सामान्यतो-ऽभिधाय
“प्राधान्यतः शक्तिलाभात् प्राग्भावापादना-दपि। तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्त्तनात्। अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात्। आराद-[Page1716-b+ 38] प्युपकारत्वात् स्वातन्त्र्यं कर्त्तुरिष्यते” इति अस्यायमर्थःइतरव्यापारात् प्रागपि प्राधान्येनात्मशक्तेः कर्त्तृव्यापारस्यसत्त्वात्, तथाच इतरव्यापारानधीनव्यापारवत्त्वादित्यर्थःइतरकारकाणाञ्चकर्त्तुः प्रयोज्यत्वात्, न तथा, दात्रादेः कुठा-रादिवत् कर्त्तुः प्रतिनिध्यसम्भवात् कारकान्तराप्रयोगेऽपिकर्त्तुः प्रयोगात्, आरात् साक्षाद्धातूपात्तफलजनकव्यापारवत्त्वाच्च स्वातन्त्र्यं कर्त्तुरिति। कौ॰ विवक्षितैति कर्मकर-णादेरपि तत्तद्व्यापारस्य धातुनाभिधाने कर्त्तृत्वमिति द्यो-तनाय।
“उत्पत्तिमात्रे कर्त्तुत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणत्वादिसम्भवः” इति हरिणाविवक्षावशात् सर्वेषां कर्त्तृत्वस्वीकारात्। भाष्यकृता तु
“पर्य्याप्तं करणाधिकरणकर्मणामेव कर्त्तृत्वं निदर्शितमपा-दानादीनां कर्त्तृत्वानिदर्शनाय” इत्युक्तत्वात् करणाधिकरण-कर्मणामेव विवक्षया कर्त्तृत्वमिति नापादानसंप्रदानयो-रितिविवेकः”। कारकव्यापारभेदश्च मञ्जूषायां दर्शितःसंक्षिप्य ततोऽस्माभिः शब्दार्थरत्ने दर्शिंतोयथा
“कर्त्तुः कारकान्तरप्रवर्त्तनव्यापारः। करणस्य क्रिया-जनकाव्याहितव्यापारः। क्रिमाफलेनोद्देश्यक्कव्यापारश्चकर्म्मणः। कर्त्तृकर्म्मव्यवहितक्रियाधारणव्यापारोऽधि-करणस्य। प्रेरणानुमत्याटिव्याप्रारः सम्प्रदानस्य, अवधिभावोपगमव्यापारोऽपादानस्येति। तत्र करणाधारकर्मकर्त्तॄणां क्रियाजनकत्वं सुव्यक्त तैर्व्विना क्रि-यानुत्पत्तेः फलरूपक्रियाजनकत्वेन विशिष्टक्रियाजन-कत्वाच्च कर्म्मणस्तथात्वं घटं स्मरति कटं करोतीव्यादौच वुद्धिस्थघटादेरपि पूर्व्वकालत्वेन स्माणादिहेतुत्वा-त्तथात्वमतएव तेषु कर्त्तृत्वविवक्षया काष्ठं पचति स्थालीपचति ओदनः पच्यते इत्यादिप्रयोगः। अपादानस्यअवधिभावोपगमेन हेतुत्वात् सम्प्रदानस्य च दातृबुद्धिस्थ-तया पूर्व्वकालत्वेन हेतुत्वाच्च कियानिर्ब्धाहकत्वेऽपि नकर्त्तृत्वविवक्षा अनभिधानात् तदुक्तं भाष्येऽपादानादीनांकर्त्तृत्वानिदर्शनायेत्यन्तमनुपदं सरलाग्रन्थांशे दर्शितम्। स च प्रवृत्तिनिवृत्त्योरुभयोरपि सम्पादकः
“प्रवृत्तौ च नि-वृत्तौ च कारकाणां यईश्वरः। स कर्त्ता नाम विज्ञेयःकारकाणां प्रयोजकः” इत्युक्तेः। स च पञ्चविषः
“क्रियासुख्योमवेत् कर्त्ता हेतुकर्ता प्रयोजकः। अनुमन्ताग्रहीता च कर्त्ता पञ्चविधः स्मृतः” गोपालभट्टा॰ अत-एव मनुना
“अनुमन्ता विशसिता नियन्ता क्रयविक्रयी। संस्कर्त्ता चोपहर्त्ता च षडेते स्प्रतकाः स्मृताः” इति षण्णां[Page1717-a+ 38] धातकर्त्तृत्वमुक्तम् काशीख॰
“खादकोषतकस्तथेति” चतुर्थचरणे पाठः। तेन अष्टानांकर्त्तृत्वमुक्तम्। स च प्रका-रान्तरेण त्रिविधः
“त्रिधेव ज्ञायते कर्त्ता विशेषेण क्रियांप्रति। योगत्वप्रतिषिद्धत्वविशेषणपदान्वयैः” भट्टका॰। अस्यार्थः क्रियां प्रति प्रकारत्रयेण कर्त्ता विज्ञायतेतस्य विवरणम्
“स्वाध्यायोऽध्येतव्यः” इत्यत्र बोग्य-त्वेन लब्धविद्यस्त्रैवर्णिकः,

१ ।
“अहरहर्दद्याद् दो-क्षितो न ददाति इत्यत्र प्रतिषिद्धत्वेन दीक्षितेत-रःपरः

२ ।
“स्वर्गकामो यजेत” इत्यत्र विशेषण-पदान्वयेन स्वर्गकामः कर्त्ता ज्ञायते

३ ,। स च प्रकारा-न्तरेण त्रिविधः सात्त्विकादिभेदात् यथाह गीता
“मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः। सिद्ध्यऽसिद्ध्योर्निर्विकारः कर्त्ता सात्विक उच्यते”
“रागी कर्मफलप्रे-प्सुर्लुब्धोहिंसात्मकोऽशुचिः। हर्षशोकान्वितः कर्त्ताराजसः परिकीर्त्तितः”
“अयुक्तः प्राकृतः स्तव्यः शठो-नैकृतिकोऽलसः। विषादी दीर्घसूत्री च कर्त्ता तामस उ-च्यते”। कर्त्तृपदञ्च क्रियाश्रये कृत्याश्रगे वा मतभेदेनरूढं न तु यौगिकमित्येतत् शब्दचि॰ भट्टमतदर्शम-प्रस्तावे दर्शितं यथा(
“अथ क्रियाजन्यत्वाविशेषेऽपि यत्नजन्यत्वाजन्यत्वाभ्यांघटाङ्क रषोः कृताकृतत्वव्यवहारात्तृजन्तकृघातुव्युत्पन्न-कतृऐपदस्य कृत्याश्रयत्वबोधकत्वाच्च कृञोयत्रार्थत्वं,क्रियामात्रार्थत्वे कृञः, क्रियाश्रयः कर्तृपदार्थः स्यात्। तथा च कारकमात्रेऽतिप्रसङ्गः एवञ्च कृञो यत्नार्थत्वे-न चाख्यातविवरणात् तस्यापि यत्नोऽर्थः। तदुच्यते।
“कृताकृतविभागेन कर्तॄरूपव्यवस्थया। यत्नएव कृतिःपूर्वा परस्मिन् सैव भावना” सैवाख्यातार्थोभावनेति चेत्। वीजेनाङ्कुरः कृतः स्वर्गादिना सुखं कृतं वीजमङ्कुरंकरोतीति यत्नं विनापि व्यवहारात्”
“कर्तृपदञ्च नयौगिकं तथा हि कृञोयत्नार्थत्वे तिङः कृत्यर्थत्वे वाधातुप्रत्ययार्थयोः कृतिकृञोर्वा परस्परमनन्वयः कृतौ कृति-जन्यत्वस्य तद्विषयत्वस्य वाऽभावात् कृतिविशिष्टस्य कृति-निराकाङ्क्षत्वादिति। एवं कृञः क्रियार्थत्वे तृचश्च क्रियाश्रयवाचकत्वे तयोः परस्परमन्वय एवेति उभयदर्शने क-र्तृपदं कर्म्मादिपदवद्रूढमेव। रूढिश्च कृत्याश्रये क्रियाश्रयेवेत्यन्यदेतत् तथा च कृताकृतविभागीन च कर्तृरूपव्यव-स्थया च न कृञो यत्नार्थत्वमिति” किञ्चाख्यातस्य करोतेश्चन यत्नार्थत्वम् पाकाय यतते पाकं करोतोत्यादौ यत्नद्वयस्य[Page1717-b+ 38] यत्नविषयकयत्नस्य वाऽप्रतीतः प्रकृतिप्रत्ययार्थयोश्च सा॰म्येनान्वयानुपपत्तेः पौनरुक्त्यात् एकत्रैव विध्यनुवा-ददोषाच्च” इत्यादिकम् भट्टमतम्। स्वमते तु कृञःयत्नार्थत्वमिति भेदः तच्च कृधातुशब्दे दर्शयिष्यते। शब्द॰ प्र॰ कर्तृपदं यौगिकमिति व्यवस्थाप्य तल्लक्षणमुक्तं यथा(
“तिङा विकरणाक्तस्य धातोरर्थस्तु यादृशः। स्वार्थयादृशि बोध्यस्तत्कर्तृत्वं तदिहोच्यते। सविकरणेनयद्वातुनोपस्थाप्योयादृशार्थ स्तदुत्तरतिङा स्वोपस्थाप्यया-दृशार्थोऽनुभावयितुं शक्यस्तद्धातूपस्थाप्यस्य तस्य तदेवकर्तृत्वं कारकमित्यर्थः। कर्म्मत्वादौ धातुनोपस्थाप्यो-ऽर्थस्तिङानुभाव्योऽपि न विकरणाक्तेनेति न तत्र प्रस-ङ्गः। पचति जानातीत्यादौ स्वोपस्थाप्यकृत्याश्रयत्वादौघातूपस्थाप्यस्य पाकबुद्ध्यादेरन्वयः पचाद्युत्तरतिङा बोध्य-तैति पाकस्य यत्नवत्त्वं, ज्ञानस्याश्रयत्वमेवं नश्यतीत्यत्रनाशस्य प्रतियोगित्वं प्रतिविम्बतैत्यत्र भ्रमात्मनः प्रति-विम्बस्य प्रकारत्वमेव कर्तृत्वम्। कर्तृशब्दस्तु अवयववृत्तिलभ्येकृत्याश्रये यौगिकएव न तु शक्यार्थकः प्रकारान्तरालभ्य-स्यैव शक्यत्वात् निरूढलक्षणया शक्त्यैव वाश्रयत्वस्य तृचाप्रत्यायनात्। घटस्य कर्त्तेत्यादौ चानुकूलत्वं षष्ठ्यर्थः फलस्यप्रायशः कृतिविषयत्वात् घटाद्युपभीगानुकूलकृतिश्च नघटाद्यनुकूला प्रमाणाभावात् अतोन घटादिभोक्तुस्तत्कर्तृत्वप्रसङ्गः। क्रियाश्रये कर्तृशब्दोरूढस्तेन रथादेर्गत्या-दिकर्तृत्वमपि मुख्यमेवेति तु न युक्तम्। क्रिया हि नात्रस्पन्दश्चेतनस्य पाककर्तृत्वानुपपत्तेः प्रत्युत तण्डुलादेरेवतथात्वापत्तेः नापि धात्वर्थमात्रम् अतएव, नापि स्पन्द-नानुकूलव्यापारः चलमानुकूलव्यापारवतः कारकमात्रस्यचलनकर्तृत्वापत्तेः। अत्तिजुहोतीत्यादावप्यदादेरुत्तरं लु-प्तस्यैव विकरणस्य प्रतिसन्धाने भोजनकर्तृत्वादेरववगमैति। तदप्रतिसन्धानेऽपीति मतेनाह। यगन्तभिन्नधात्वर्थवत्तयायोऽनुभाव्यते। लटा स्वार्थः स धात्वर्थः कर्तृतावा निग-द्यते। यगन्तभिन्नधातूपस्थाप्ययादृशार्थप्रकारयदर्थधर्म्मि-कान्वयबोधं प्रति लटः सामर्थ्यं स एवार्थो धातूपस्थाप्यतदर्थस्य कर्तृत्वम् पच्यत इत्यादौ धातोरर्थवत्तया स्वार्थ-कर्म्मत्वं लटानुभाव्यमपि न यगन्तभिन्नस्य, पक्ष्यते तण्डुल-इत्यादौ तु तादृशस्य धातोरर्थवत्तया तिडैव स्वार्थ-कर्म्मत्वमनुभाव्यते न तद्विशेषेण लटेति तद्व्युदासः। अपा-दानत्वादिभेदेन षड्विधत्वमिवोक्तानुक्तत्वभेदेन कारकस्यद्वैविध्यमप्यस्तीति तदनुक्रपा न्यूनत्वमत आह। धात्वर्यस्य[Page1718-a+ 38] र्मितया तिङाद्यैरनुभाव्यते। यत्तदुक्तं धर्मतया त्वनुक्तंकारकं भवेत्। धात्वर्थस्य विशेष्यतया तिङाद्यनुभव्यत्वमेवकारकस्योक्तत्वं तद्विशेषणतया तदनुभाव्यत्वमेव चानुक्तत्वंनतु धातुसाकाङ्क्षप्रत्ययस्याभिध्नेयत्वमात्रमुक्तं तण्डुलंपचति इत्यादावपि कर्म्मत्वादेरुक्तत्वापत्तेः। पचति पच्यत-इत्यादौ तिङा, पाचकः पच्यमानैत्यादौ च कृता, कर्तृ-त्वं कर्म्मत्वञ्च धात्वर्थविशेष्यत्वेनानुभाव्यते तथा पचनंकाष्ठं, दानीयो द्विजः, भीमोगजः, शयनं गृहमित्यादौयथाक्रमं करणत्वादि व्युत्पत्तिवैचित्र्येण पदार्थैकदेशेऽपिकर्तृत्वादौ धात्वर्थस्य पाकादेरन्वयात्। सेवितुं साम्प्रतंविज्ञैर्गुरुः परुषवागपि”
“विषवृक्षोऽपि सम्बर्द्ध्व्यस्वयं छेत्तु-ममाम्प्रतम्” इत्यादौ निपातेन क्वचित् कर्म्मत्वकारकस्योक्त-त्वम्। धातुभेदेन कर्म्मत्वकारकस्योक्ततायां नियममाह। दुहादिभ्यः प्रत्ययेन भुख्यकर्म्मत्वमुच्यते। णिजन्तेभ्यः कर्तृ-ताख्या तदसत्त्वेऽन्यकर्म्मता। दुहाद्युत्तरप्रत्ययेन मुख्यंसाक्षाद्धात्वर्थतावच्छेदकं यत्कर्मत्वं तदेवोच्यते धात्वर्थ-विशेष्यत्वेभानुभाव्यते तेन गौः पयो दुह्यते दुग्धा वेत्यत्रपयःकर्मकमोचनानुकूलव्यापारजन्यमोचनवती गौरित्येवंबोधः। तत्र मोचनावच्छिन्नव्यापारस्य धातुवाच्यतयामीचनस्यैव साक्षद्धात्वर्थतावच्छेदकफलत्वात्। वहिप्रभृ-तेर्गत्यवच्छिन्नव्यापारः। कृषेश्च गत्यवच्छिन्नविकर्षणं वाच्य-मतः साक्षात् तद्वाच्यतावच्छेदकं गतिमत्त्वमेव फलं न तुतद्घटकसं योगादि। तथाच‘ भारोभवनं नीयते’ इत्यादौ शाखा ग्रामं कृष्यतेऽइत्यादौ च यथाक्रमं भवन-कर्मकगत्यनुकूलव्यापारजन्यगतिमान् भारः, ग्रामकर्मक-गत्यवच्छिन्नविकर्षणकर्म्मताश्रयः शाखेत्याकारकबोधयोरुत्-पत्त्यैव मम्पत्तौ दुहादेर्गौणकर्मत्वं, नीवहादेः प्रधान-त्वमित्याद्युक्तिभेदेन विघिद्वयं शाब्दिकानामनादेयम्। णिजन्तोत्तरं कर्म्मतावाचिप्रत्ययस्थले तु मूलधातोः कर्तृ-तायाङ्कर्मतातिदेशसम्भवे तादृशमेव कर्मत्वं घात्वर्थस्य विशेष्यतया तिङाद्यैर्बोध्यते यथा चैत्रोग्रामं गम्यते गमितो-वेत्यादौ ग्रामकर्मकव्यापारजन्यगमनस्य कर्त्ता चैत्र-इत्यादि। यत्र तु न तदतिदेशस्तत्र मूलधातोः कर्मत्व-मेव तदर्थविशेष्यतया तैरुच्यते यथा‘ ओदनः पाच्यतेखाद्यते वा भृत्येन भर्त्त्रांइत्यादौ तत्र भर्तृकर्तृकव्यापा-जन्यस्य मृत्यकर्तृकपाकादेः कर्भतयौदनादिरेव बोध्यते‘ मैत्रेण पूगं खाद्यमानश्चैत्रोव्रजतीत्यादौ’ कर्मणि शान-जादिपत्ययः प्राक् परिचिन्तितः”। [Page1718-b+ 38] न्यायादिमते कृतिमानेव कर्त्तृशब्दवाच्यः इत्यतः कर्त्तृ-त्वमात्मधर्म्मः। सांख्यमते बुद्धेर्योऽयं कर्तृत्वाभिनिवेशस्त-दुपरागादकर्त्तुः पुरुषस्यापि तदभिमानः। तदेतत् सां॰प्र॰ सू॰ भाष्ययोर्दर्शितम् यथा
“उपरागात् कर्त्तृत्वं चित्सान्निध्याच्चित्सान्निध्यात्” सू॰।
“अत्र यथायोग्यमन्वयः। पुरुषस्य यत् कर्त्तृत्वं तद्बुद्ध्यु-परागात्। बुद्धेश्च या चित्ता सा पुरुषसान्निध्यात्। एतदु-भयमवास्तवमित्यर्थः। यथाग्न्ययसोः परस्परं सं-योगविशेषात् परस्परधर्मव्यवहार औपाधिको यथावा जलसूर्ययोः संयोगात् परस्परधर्मारोपस्तथैव बुद्धिपु-षयोरिति भावः” भा॰। पुरुषस्य यथाऽकर्त्तृता तथा सां॰ कौ॰ व्यवस्थापितं यथा
“तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य। कैवल्यंमाध्यस्थ्यं दृष्टृत्वमकर्तृभावश्च” का॰।
“तस्माच्चेति चः पुरुषस्यबहुत्वेन सह धर्म्मान्तराणि समुच्चिनीति विपर्यासाद-स्मादित्युक्तौ त्रैगुण्यविपर्ययादित्यनन्तरोक्तं सम्बध्येत अत-स्तन्निरासाय तस्मादित्युक्तम् अनन्तरोक्तं हि सन्निधाना-दिदमोविषयो विप्रकृष्टञ्च तद इति विप्रकृष्टं त्रिगुणमवि-वेकोत्यादि सम्बध्यते। तस्मात् त्रिगुणादेः यो विपर्य्यामःस पुरुषस्यात्रिगुणत्वं विवेकित्वमविषयत्वमसाधारणत्वंचेतनत्वमप्रसवधर्मित्वञ्च। तत्र चतनत्वन अविषयत्वेन चसाक्षित्वद्रष्टृत्वे दर्शिते चेतनोहि द्रष्टा भवति नाचतनःसाक्षी च दर्शितविषयोभवति यस्मै प्रदर्श्यते विषयः ससाक्षी यथा हि लोके अर्थिप्रत्यर्थिनौ विवादविषयं साक्षिणेदर्शयतः एवं प्रकृतिरपि स्वरचितं विषयं पुरुषाय दर्श-यतीति पुरुषः साक्षी। न चचितनोविषयो वा शक्योविषयंदर्शयितुमिति चैतन्यादविषयत्वाच्च भवति साक्षी अतएवद्रष्टापि भवति अत्रैगुण्याच्चास्य कैवल्यम् आत्यलिको दुःखत्रयाभावः कैवल्यं तच्च तस्य स्वाभाविकादेवात्रैगुण्यात्सुख-दुःखमोहरहितत्वात्सिद्धम्। अतएवात्रैगुण्यान्माध्यस्थ्यंसुखी हि सुखेन तृप्यन्, दुःखी हि दुःखं द्विषन्न मध्यस्थो-भवति तदुभयरहितस्तु मध्यस्थैत्युदासीन इति चाख्या-यते। विवेकित्वादप्रसवधर्मित्वाच्चाकर्त्तेति सिद्धम्। स्यादेतत्प्रमाणन कर्त्तव्यमर्थमवगम्य चेतनोऽहं चिकीर्षन् करामीतिकृतिचैतन्ययोः सामानाधिकरण्यमनुभवसिद्धं तदत-स्मिन्मते नावकल्पते चेतनस्याकर्तृत्व त्कर्तुश्चाचंतन्यादित्यत-आह” कौ॰
“तस्मरत्तत्सं योगादचेतनं चेतनावदिव लि-ङ्गम्। गुणकर्तृत्वे च तथा कर्त्तेव भवत्युदासौनः” का॰। [Page1719-a+ 38]
“यतश्चैतन्यकर्तृत्वे मिन्नाधिककरणे युक्तितः सिद्धे तस्मा-द्भ्रान्तिरियमित्यर्यः। लिङ्गं महदादिसूक्ष्मपर्य्यन्तं वक्ष्यतिभ्रान्तिवीजं तत्संयोगस्तन्निदानम् अतिरोहितार्थमन्यत्” कौ॰। तदेतन्मतमुथाप्य मुक्तावल्यां निराकृतं यथा
“एतेनप्रकृतिः कर्त्री पुरुषः षुष्करपलाशवन्निर्लेपः किन्तु चेतनःकार्य्यकारणयोरभेदात् कार्य्यनाशे कार्य्यरूपतया नाशःस्यादित्यकारणत्वं तस्य बुद्धिगतचैतन्याभिमानार्थानुपपत्त्यातद्कल्पनम्। बुद्धिश्च प्रकृतेः प्रथमः परिणामः। सैव मह-त्तत्त्वमन्तःकरणमप्युच्यते। तत्सत्त्वासत्त्वाभ्यां पुरुषस्य सं-सारापवर्गौ। तस्या एवेन्द्रियप्रणालिकया परिणतिर्ज्ञानरूपाघटादिना सम्बन्धः। पुरुषे कर्तृत्वाभिमानो बुद्धौ चैत-न्याभिमानश्च भेदाग्रहात्। ममेदं कर्त्तंव्यमिति मदंशःपुरुषोपरागो बुद्धेः स्वच्छतया चेतनप्रतिविम्बादतात्त्विकोदर्पणस्येव मुखोपरागः। इदमिति विषयोपराग इन्द्रि-यप्रणालिकया परिणतिभेदस्तात्त्विको निश्वासाभिहतदर्प-णस्येव मलिनिमा। कर्त्तव्यमिति व्यापारावेशः। ते-नांशत्रयवती बुद्धिस्तत्परिणामेन ज्ञानेन पुरुषस्यातात्त्विकःसम्बन्धोदर्पणमलिनिम्नेव मुखस्योपलब्धिरुच्यते। ज्ञानादि-वत् सुखदुःस्वेच्छाद्वेषप्रयत्नधर्म्माधर्म्मा अपि बुद्धेरेव कृ-तिसामानाधिकरण्येन प्रतीतेः। न च बुद्धिश्चेतना परि-णामित्वादिति सांख्यमतमपास्तम् कृत्यदृष्टभोगानामिवचैतन्यस्यापि सामानाधिकरण्यप्रतीतेस्तद्भिन्ने मानाभावा-च्चेतनोऽहं करोमोति प्रतीतेः। बुद्धेः परिणामित्वाच्चैतन्यांशेभ्रम इति चेत् कृत्यंशे किं नेष्यते। अन्यथा बुद्धेर्नित्यत्वेतत्पूब्बमसंसारापत्तिः। अचेतनायाः प्रकृतेः कार्य्यत्वात्बुद्धेरचैतन्यं कार्य्यकारणयोस्तादात्म्यादिति चेन्न असि-द्धेः कर्त्तुर्जन्यत्वे मानाभावात् वीतरागजन्मादर्शनादनादित्वम्। अमादेर्नाशासम्भवान्नित्यत्वम्” मुक्ता॰। वेदान्तिमते आविद्यिकजीवस्यैवौपाधिकं कर्त्तृत्वं शा॰ सू॰भा॰ व्यवस्थापितम् यथा।
“कर्त्ता शास्त्रार्थवत्त्वात्”। तद्गुणसारत्वाधिकारेणैवापरो-ऽपि जीवधर्म्मः प्रपञ्च्यते। कर्त्ता चायं जीवः स्यात् क-स्मात् शास्त्रार्थवत्त्वात् एवञ्च यजेत जुहुयात् दद्यादि-त्येवंविधं विधिशास्त्रमथवद्भवति अन्यथा तदनर्थकंस्यात्। तद्धि कर्त्तुः सतः कर्त्तव्यविशेषमुपदिशति न चासति कर्तृत्वे तदुपपद्यते। तथेदमपि शास्त्रमेवमसर्णमद्धे-वति
“एष हि द्रष्टा श्रीता मन्ता बोद्धा कर्त्ता विज्ञानात्मापुरुष” इति भा॰।
“विहारोवदेशात्” सू॰।
“इतश्च जीषस्य[Page1719-b+ 38] कर्तृत्वं यज्जीवप्रक्रियायां सन्ध्ये स्थाने विहारमुपदिशति
“सईयतेऽमृमोयत्रकाममिति”
“स्वे शरीरे यथाकामं परि-वर्त्तते” इति च भा॰।
“उपादानात्” सू॰।
“इतश्चास्यकर्तृत्वंयज्जोवप्रक्रियायामेव करणानामुपादानं सङ्कीर्त्तयति।
“तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति”।
“प्राणान् गृहीत्वेति च” भा॰।
“व्यपदेशाच्च क्रियायांन चेन्निर्द्देशविपर्य्ययः” सू॰।
“इतश्च जीवस्व कर्तृ-त्वंयदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वंव्यपदिश्यते
“विज्ञानं यज्ञं तनुते कर्म्माणि तनुतेऽपिचे-ति”। ननु विज्ञानशब्दो बुद्धौ समधिगतः कथमनेनजीवस्य कर्तृत्वं सूच्येतेति नेत्युच्यते जीवस्यैवैष-निर्द्देशो न वुद्धेः न चेज्जीवस्य स्यात् निर्द्देशविपर्य्ययःस्यात् विज्ञानेनेत्येवं निरदेक्ष्यत्। तथा ह्यन्यत्र बुद्धि-विववक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्द्देशो दृश्यते
“तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति”। इहतु
“विज्ञानं यज्ञं तनुत” इति कर्तृ समानाधिकरण्य-निर्द्देशात् बुद्धिव्यतिरिक्तस्यैवात्मनः कर्तृत्वं सूच्यतइत्यदोषः। अत्राह यदि बुद्धिव्यतिरिक्तो जीवः कर्त्तास्यात् स स्वतन्त्रः सन् प्रियं हितं चैवात्मनोनियमेनसम्पादयेत् न विपरोतं, बिपरीतमपितु सम्पादयन्न, पल-भ्यते। न च स्वतन्त्रस्यात्मन ईदृशी प्रवृत्तिरनियमेनोपपद्यतेइति अतौत्तरं पठति” भा॰।
“उपलब्धिवदनियमः” सू॰। यथायमात्मोपलब्धिं प्रति स्वतन्त्रोऽप्यनियमेनेष्टमनिष्टञ्चउपलभते एवमनियमेनैवेष्टमनिष्टञ्च सम्पादयिष्यति। उपलब्धावप्यस्वातन्त्र्यमुपलब्धिहेतूपादानोपलम्भादिति चेन्नविषयविकल्पनमात्रप्रयोजनवत्त्वादुपलन्धिहेतूनाम् उप-लब्धौ त्वनन्यापेक्षत्वमात्मनः चैतन्ययोगात्। अपि-चार्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति देश-कालनिमित्तविशेषापेक्षत्वात्। न च सहायापेक्षस्य कर्त्तुःकर्तृत्वं निवर्त्तते। भवति ह्येधोदकाद्यपेक्षस्यापि पक्तुःपक्तृत्वम्। सहकारिवैचित्र्याच्चेष्टानिष्टार्थक्रियाया-मनियमेन प्रवृत्तिरात्मनो न विरुध्यते” मा॰।
“शक्तिविपर्य्य-यात्” सू॰।
“इतश्च बिज्ञानव्यतिरिक्तो जीवः कर्त्ता भवितुमर्हति। यदि पुनर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्त्री स्या-त्ततः शक्तिविपर्य्ययः स्यात् करणशक्तिर्बुद्धेर्हीयेत कर्तृ-शक्तिश्चापद्येत। सत्याञ्च वुद्धेः कर्तृशक्तौ तस्या एवाहंप्रत्ययविषयत्वमभ्युपगकव्यम् अहकरणपूर्व्विकाया{??}प्रवृत्तेः सर्व्वत्र दर्शनात् अहं गच्छाम्यहं भुञ्जेऽहं[Page1720-a+ 38] पिबाभीति च तस्याश्च कर्तृशक्तियुक्तायाः सर्व्वार्थका-रिण्याः सर्व्वाथकारि करणमन्यत् कल्पयितव्य शक्तोऽपिहि सन् कर्त्ता करणमुपादाय क्रियासु प्रवर्त्तमानो दृ-श्यत इति। ततश्च संज्ञामात्रे विसवादः स्यात् न चवस्तुभेदः कश्चित् करणव्यतिरिक्तस्य कर्त्रत्वाभ्यवगमात” भा॰
“समाध्यभावाक्ष स्र॰।
“योऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेपु
“आत्मा वा अरेद्र-ष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः”
“सोऽन्वेष्टव्यःस विजिज्ञोसतव्यः”
“ओमित्यवं ध्यायेत आत्मानम्” इत्येवं लक्षणः सोऽप्यसत्यात्मनः कर्तृत्वेनोपपोड्येत, तस्माद-प्यस्य कर्तृत्वसिद्धिः” भा॰।
“यथा च तक्षीनयथा” सू॰
“एवं तावत् शास्त्रार्थवत्त्वादिभिर्हेतुभिः कतृ त्वं शारीरस्यप्रदर्शितं तत्पुनः खाभाविकं वा न्यादुपाधिनिमित्तं वेतिचिन्त्यते। तत्र तैरेव शास्त्वार्थवत्त्वादिभिर्हेतभिः स्वाभा-विकं कर्तृत्वम् अपवादहत्वभावादित्येवं प्राप्ते व्रूमः। न स्वाभाविक कर्तृत्वमात्मनः सम्भवति अतिर्म्मोक्षप्रस-ङ्गात्। कर्तृत्वस्वभावत्वे ह्यात्मनो न कर्तृत्वान्निर्मोक्षःसम्भवति अग्नेरिवौष्ण्यात्। न च कर्त्रत्वादनिर्मुक्तस्या-स्ति पुरुषार्थसिद्धिः कर्तृत्वस्य दुःखखरूपत्वात्। ननु-स्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्य्यपरिहारात्पुरुषार्थः सेत्स्यति तत्परिहारश्च निमितपरिहारात्यथाग्नेर्दहनशक्तियु व्य्यापि काष्ठवियोगाद्दहनकार्य्याभावस्तद्वत् न, निमित्तानामपि शक्तिलक्षणेन सम्ब-न्धेन सन्वद्धानामत्यन्तपरिहारासम्भवात्। ननु मोक्षसाधनविधनान्मोक्षः सेत्स्यति न साधनायत्तस्यानित्यत्वात्। अपि च नित्यशुषवुद्धमुक्तात्मप्रतिपादनान्मोक्षसिद्धिरभि-हिता ताद्वगात्मप्रतिपादनञ्च न स्वाभाविके कर्तृत्वेऽवक-ल्पते। तस्मादुपाधिधर्म्माध्यासेनैवात्मनः कर्तृत्वं न स्वा-वाविकम्। तथा च श्रुतिः
“ध्यायतीव लेलायतीव” इति।
“आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण” इति चोपाधिसंयुक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति। न हिविवेकिनां परस्मादन्यो जीवोनाम कर्त्ता भोक्ता वा विद्यते
“नान्योऽतोऽस्ति द्रष्टेत्यादि” श्रवणात्। परएव तर्हिसंसारी कर्त्ता भोक्ता च प्रसज्येत परस्मादन्यश्चेच्चितिमान्युद्ध्यादिसंघातव्यतिरिक्तो न स्यात् न अविद्याप्रत्यु-पस्थापितत्वात् कर्तृत्वभोक्तृत्वयोः। तथा च शास्त्रं
“यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीति” अवि-द्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते[Page1720-b+ 38] एव कर्तृत्व भोक्तृत्वे निवारयति
“यत्र त्वस्य सर्व्वमात्मैवाभूत्तत् केन कं पश्येदिति”। तथा स्वप्नजागरितयो-रात्मन उपाधिसम्पर्ककृतं श्रमं श्येनस्येवाकाशे विपरि-पततः श्रावयित्वा तदभावं सुषुप्ते प्राज्ञेनात्मना संपरिष्यक्तस्य श्रावयति
“तद्वा अस्यैतदाप्तकाममात्मकामम-कासं रूपं शोकान्तर” मित्यारभ्य
“एषास्य परमा गतिरेषास्यपरमा संपत् एषाऽस्य परमोलीक एषोऽस्य परमानन्दः” इत्युपसंहारात्। तदेतदाहाचार्य्यः
“यथा च तक्षोभयथेति”। तत्वर्थे चायञ्चः पठितः। नेवं मन्तव्यं स्वाभाविकमेवात्मनः कर्तृत्वम् अग्नेरिवौष्ण्यमिति। यथा चलोके तक्षा वास्यादिकरणहस्तः कर्त्ता दुखी भवति स एवस्वगृहं प्राप्तोविमुक्तवास्यादिकरणः स्वस्थोनिर्वृत्तोनि-र्व्यापारः सुखी भवति एवमविद्याप्रत्युपस्थापितद्वैतसंयुक्त आत्सा स्वप्नजागरितावस्थयोः कर्त्ता दुखी भवतिस तच्छमापनुत्तये स्वमात्मानं परं प्रविश्य मुक्तकार्य्य-करणसंघातोऽकर्त्ता सुखो भवति संप्रसादावस्थायां, तथामुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूयात्मैवकेवलोनिर्वृत्तः सुखा भवति। तक्षदृष्टान्तश्चैतावतांशेनद्रष्टव्यः तक्षा हि विशिष्टेषु तक्षणादिषु व्यापारेष्वपे-क्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्त्ता भवतिखशरारेण त्वकर्त्ता, एवमयमात्मा सर्व्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्त्ता भवति स्वात्मना खकर्त्तैव-ति नत्वात्मनस्तक्ष्णैवावयवाः सन्ति र्यहस्तादिभिरिव वास्यादीनि तक्षा मनआदीनिकरणान्यात्मोपाददीत न्यसेद्वा। यत्तूक्तं शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनःकर्तृत्वमिति तत्र विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्व-मुपादाय कर्त्तव्यविशेषमुपदिशति स कर्तृत्वमात्मनःप्रतिपादयति। न च खाभाविकमस्य कर्तृत्वमस्ति ब्र-ह्मात्मत्वोपदेशादित्यवोचाम। तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्त्तिष्यते। कर्त्ता विज्ञानात्मापुरुष इत्येवं जातीकमपि शास्नमनुवादरूपत्वाद्यथाप्राप्त-मेवाविद्याकृतं कतृ त्वमनुवदिष्यति। एतेन विहारोपा-दाने परिहृते तयोरप्यनुवादरूपत्वात्। सनु सन्ध्ये स्थाने-सुषुप्तेषु करणेषु
“स्वेशरीरे यथाकामं परिवर्त्तते” इतिविहार उपदिश्यमानः केबलस्यात्मनः कर्तृमाव इति,तथोपादानेऽपि
“तदेषां घाणानां विज्ञानेन विज्ञानमादा-येति” करणेषु कर्म्मकरणविभक्ती श्रूयमाणे केबलस्यैवात्मनःकर्तृभावं गमयत इति। अत्रोच्यते न तावत् सन्ध्येस्थाने[Page1721-a+ 38] ऽत्यन्तमात्मनः करणविरमणमस्ति
“सधीः स्वप्नोभूत्वेमंलोकमतिक्रामतीति” तत्रापि धीसम्बन्धश्रवणात्। तथा च स्मरन्ति
“इन्द्रियाणामुपरमे मनोऽनुपरतं यदि। सेवते विषयानेव तद्विद्यात् स्वप्नदर्शनमिति”। कामाद-यश्च मनसोवृत्तय इति श्रुतिः ताश्च स्वप्ने दृश्यन्ते तम्मात्-समना एव स्वप्ने विहरति। विहारोऽपि तत्रत्योवासनामयएव न पारमार्थिकोऽस्ति। तथा च श्रुतिरिवकारानुबद्वमेवस्वप्नव्यापारं वर्णयति
“उतेव स्त्रीभिः सह मोदमानोयक्षदुतेवापि भयानि पश्यन्निति”। लौकिकाअपि तथैवस्वस्वप्नं कथयन्ति (आरुक्षमिव गिरिशृङ्गम्) अद्राक्षमिव वन-राजिमिति। तथोपादाने यद्यपि करणेषु कर्म्मकरणविभक्तिनिर्देशस्तथापि तत्संयुक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यं केबले-कर्तृत्वासम्भवस्य दर्शितत्वात्। भवति च लोकेऽनेकप्रका-रा विवक्षा (योधायुध्यन्ते) (योधै राजायुध्यते) इति च। अपि चास्मिन्नुपादाने करणव्यापारोपरममात्रं विव-क्ष्यते न स्वाततन्त्य्रं कस्यचित्, अवुद्धिपूर्ब्बकस्यापि स्वापे-करणव्यापारोपरमस्य दृष्टत्वात्। यस्त्वयं व्यपदेशोदर्शितः
“विज्ञानं यज्ञं तनुते” इति स बुद्धेरेव कर्तृत्वंप्रापयति विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् मनोऽनन्तरपाठाच्च
“तस्य श्रद्धैव शिरः” इति विज्ञानमयस्यात्मनःश्रद्धाद्यवयवत्वसंकीर्त्तनात् श्रद्धादीनाञ्च वुद्धिधर्म्मत्वप्रसिद्धेः
“विज्ञानं देवाः सर्व्वे ब्रह्मज्येष्ठमुपासते” इति च वाक्य-शेषात् ज्येष्ठत्वस्य बुद्धौ प्रसिद्धत्वात्
“स एष वाचश्चित्त-स्योत्तरोश्वरक्रमो यद्यज्ञ” इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धि-साध्यत्वावधारणात्। न च बुद्धेः शक्तिविपर्य्ययःकरणानां कर्तृत्वाभ्युपगमे भवति सर्व्वकारकाणामेवस्वव्यपारेषु कर्तृत्वस्यावश्यंभावित्वात्। उपलब्ध्यपेक्षंत्वेषां करणत्वं सा चात्मनः। न च तस्यामप्यस्य कर्तृ-त्वमस्ति नित्यापलब्धिस्वरूपत्वात्। अहङ्कारपूर्व्वकमपिकर्वृत्वं नोपलब्धुर्भवितुमर्हति अहङ्कारस्याप्युपलभ्य-त्वात्। न चैवं सति करणान्तरकल्पनाप्रसङ्गः बुद्धेःकरणत्वाभ्युपगमात्। समाध्यभावस्तु शास्त्रार्थवत्त्वेनैवपरिहृतः। यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधा-नात्। तस्मात् कर्तृत्वमप्यात्मन उपाधिनिबन्धनमेवे-स्थितम्” भा॰।
“अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते” इति गीतया कर्त्तृत्वस्याहङ्काराधीनतयौपाधिकत्वंसूचितमिति द्रष्टव्यम्”। तथा चान्तःकरेणोपहितचैवतन्यमेव जीवः स एव वेदान्ति-[Page1721-b+ 38] मतेकत्तति तत्त्वम्। तस्य च ईश्वराधोनयैव कतृत्वं तदपि
“परात्तु तच्छतेः” इत्यादिशा॰ सूत्रभाष्ययोर्व्यवस्थापितं तच्चईश्वरशब्दे दर्शितमिति। स्त्रियां ङीप् कर्त्त्री।
“कर्त्तरि कृत्” कर्तृकरणयोस्तृतीया”
“अकर्त्तरि च कारके”
“कर्त्तुरीप्सिततमं कर्म”
“कर्त्तुरुपमानादाचारे क्यङ्” शेषात्कर्त्तरि परस्मैपदम्” पा॰
“कर्तृकर्मव्यहितामसाक्षाद्धार-यत् क्रियाम्” हरिः

२ तत्प्रयोजके
“तत्प्रयोजकोहे-तुश्च” पा॰
“अकर्त्तर्य्यृणे” पा॰। कर्त्तुर्भावः त्व क-त्तृत्व न॰ तल् कर्त्तृता स्त्री कृत्याश्रयत्वे क्रियाश्रयत्वे च। तत्र नैयायिकमते आख्यातस्य कृतौ शकिः वैयाक-करणमते कर्त्तरि शक्तिः
“कर्त्तरि कृत्”
“लः क-र्म्मणि भावे चाकर्मकेभ्यः” पा॰ सूत्राभ्यां तथैव प्र-तिपादनात्
“कर्त्तरि कृत्” इत्यतः कर्त्तृपदस्यैव परसूत्रेऽनुवृत्तेः लकारस्यापि तदर्थकतैवेत्याकरे स्थितम्। अघि-कमाख्यातशब्दे उक्तम्।
“न कर्त्तृत्वं न कर्म्माणि लोक-स्य सृजति प्रभुः” गोता।

३ परमेश्वरे पु॰ तस्यसर्वकर्तृत्वात्”
“एतेषां पुरुषाणां स कर्त्ता यस्य वैतत्कर्म स वै वेदितव्यः” इति श्रुतेस्तस्य तथात्वम् यथा चतस्य सर्वकर्त्तृत्वं तथा ईश्वरशब्दे दर्शितम्।
“करणं का-रणं कर्त्ता विकर्त्ता गहनो गुरुः” विष्णुस॰। कृत--तृच्।

४ छेदके त्रि॰ स्त्रियां ङीप्
“क्रोधहा क्रोधकृत्कर्त्ता” विष्णु स॰। क्रोधकृतां देत्यानां कर्त्ता भेदकः इत्येकं नामेति” भा॰ (कात)

५ क्षुद्रखड्गे न॰। तस्य कर्त्तनहेतुत्वात् तथात्वम्
“चतुर्भुजांकृशाङ्गीं तु दक्षेण कर्तृखर्परौ” ताराध्यानम्।

६ शस्त्रि-कायां स्त्री ङीष्।
“कर्त्त्रीञ्च खर्परञ्चैव क्रमाद्वामेनबिभ्रतीम्” ताराध्यादम्। उभयमपि उग्रताराशब्देदर्शितम्। (कातारो)

७ कर्त्तर्य्याम् शब्दरत्ना॰। अल्पार्थेक। कर्तृकापि क्षुद्रखड्गे स्त्री
“हास्ययुक्तां त्रिने-त्राञ्च कपालकर्तृकाकराम्” तन्त्रसा॰ श्यामाध्यानम्। किरति विक्षिपति कायम् कॄ--विक्षेपे तृच्। ज्वरादिहे-तुके

८ दाहादौ। ततोऽस्त्यर्थे मतुप् कर्तृमत् कर्तृयुक्तेत्रि॰ स्त्रियां ङीप्।
“ह्रस्वनुड्भ्यां मतुप्” पा॰ अस्य उदा-त्तत्वम्। कर्तृशब्दे उपपदे दिवाविभेत्यादिनाकृञः टः। कर्तृकर कर्तृकारके तत्प्रयोजके। स्त्रियांङीप्। इष्टे ईयसि च तृणोलोपः करिष्ठः करीयान्। तृचस्तु न लुक्। डिद्वद्भावे कर्त्तिष्ठः कर्त्तीयानिति भेदः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्त्तृ¦ mfn. (-र्त्ता-र्त्त्री-र्त्तृ)
1. An agent, a doer, a maker, one who makes or does.
2. One who practises what he knows. m. (-र्त्ता)
1. A name of BRAHMA.
2. (In grammar,) The active noun, the nominative case. E. कृ to do, and तृच् affix: it may also be read कर्तृ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्त्तृ mfn. one who cuts off

कर्त्तृ mfn. one who extinguishes , a destroyer Vi1rac.

कर्त्तृ mfn. one who spins , a spinner MBh. viii.

"https://sa.wiktionary.org/w/index.php?title=कर्त्तृ&oldid=264676" इत्यस्माद् प्रतिप्राप्तम्