सामग्री पर जाएँ

कर्द्दम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्द्दमम्, क्ली, (कर्द + “कलिकर्द्योरमः” । उणां । ४ । ८४ इति अमः ।) मांसम् । इति शब्दचन्द्रिका ॥

कर्द्दमः, पुं, (कर्द कुत्सितरवे + “कलिकर्द्योरमः” । उणां ४ । ८४ इति अमः ।) कर्द्दः । कादा इति भाषा । तत्पर्य्यायः । निषद्वरः २ जम्बालः ३ पङ्कः ४ शादः ५ । इत्यमरः । १ । १० । ९ ॥ (तथाहि याज्ञबल्क्यः । १ । १९७ । “रथ्याकर्दमतोयानि स्पृष्ठान्यन्त्यश्ववायसैः । मारुतेनैव शुध्यन्ति पक्वेष्टकचितानिच” ॥) अस्य गुणाः । शीतलत्वम् । रूक्षत्वम् । विष- रोगवेदनादाहशोथनाशित्वम् । व्रणशोधनरो- पणत्वञ्च । इति राजवल्लभः ॥ (“कर्द्दमो दाहपित्तार्त्तिशोथघ्नः शीतलः सरः” । इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥) स्वाय- म्भुवमन्वन्तरे प्रजापतिविशेषः । स तु ब्रह्मण- श्छायायां जातः । तस्य भार्य्या स्वायम्भुवमनुकन्या देवहूतिः । पुत्त्रः कपिलदेवः कन्याः कलाद्या नव । इति श्रीभागवतम् । ३ । १२ । २७ ॥ पापम् । इत्युणादिकोषः । ४ । ८४ ॥ छाया । यथा, -- “वेदेषु कर्दमः शब्दश्चायायां वर्त्तते स्फुटम् । बभूव कर्दमाद्बालः कर्दमस्तेन कीर्त्तितः” ॥ इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २२ अध्यायः ॥ (नाग- विशेषः । यथा महाभारते १ । ३५ । १६ । “कर्द्दमश्च महानागो नागश्च बहुमूलकः” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्द्दम¦ पु॰ कर्द्द--अम। (कादा)

१ पङ्के अमरः।
“सरितःकुर्वती गाधाः पथश्चाश्यानकर्द्दमान्” रघुः। करणे अम।

२ पापे उणादिकोषः। तस्य कुत्सितशब्दहेतुत्वात्तथात्वम्।

३ मांसे न॰ शब्दचि॰। तत्सेवने हि उदरशब्दोजायतेइति तस्य तथात्वम्। कर्दमश्छाया कारणत्वेनास्त्यस्यअर्श॰ अच्। ब्राह्मणेश्छायाजाते

४ प्रजापतिभेदे।
“छायायाः कर्द्दमोजज्ञे देवहूत्याः पतिः प्रभुः” भाग॰

३ ,

१२ ,

१४ ,
“प्रजाः सृजेति भगवान् कर्द्दमो ब्रह्मणोदितः। सरस्वत्यास्तपस्तेपे सहस्राणां समा दश। ततः समाधियो-गेन क्रियायोगेन कर्द्दमः। संप्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम्” भाग॰

३ ,

२१ , अष्टमश्लोकादौ। ततः कपिलस्यप्रादुर्भावोवर्णितः। तन्नामनिरुक्तिः” ब्रह्मवै॰ पु॰ ब्र॰ ख॰दर्शिता यथा।
“वेदेषु कर्दमः शब्दश्छायायां वर्त्तते स्फु-टम्। वभूव कर्दमाद्बालः कर्दमस्तेन कीर्त्तितः”। तेन

५ छायायामपि। ततः ॠश्यादि॰ चतुरर्थ्यां क। कर्दमकपङ्कसन्निकृष्टदेशादौ त्रि॰ कर्दमोजातोऽस्य तारका॰इतच्। कर्दमित जातकर्दम त्रि॰। अर्श॰ मत्वर्थेअच्। कर्दम

६ कर्दमयुक्ते त्रि॰। काश्या॰ चतुरर्थ्यां ष्ठञ्ञिटौ कार्दमिक कर्दमसन्निकृष्टदेशादौ त्रि॰ ष्ठञि स्त्रियांङीष्। मत्वर्थे इनि कर्द्दमिन् पु॰ तद्युक्ते त्रि॰ मुद्गवृक्षेपु॰ वैद्य॰ तस्य कर्दमसमीपजातत्वात्तथात्वम्। पृषी॰कर्द्रमीत्यपि तत्रार्थे।

"https://sa.wiktionary.org/w/index.php?title=कर्द्दम&oldid=264805" इत्यस्माद् प्रतिप्राप्तम्