कर्पटः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्पटः, पुं, (कीर्य्यते क्षिप्यते इति । कॄ + कर्म्मणि विच् । कर् चासौ पटश्च इति कर्म्मधारयः । यद्वा करस्थः पटः । शकन्ध्वादित्वात् अलोपे साधुः ।) मलिनत्वादिदुष्टजीर्णवस्त्रखण्डम् । नेकडा इति ख्याता । (यथा कथासरित्सागरे ४ । ६१ । “चीरखण्डैककर्पटः” ॥) तत्पर्य्यायः । लक्तकः २ । इत्यमरः । ३ । ५ । ३३ ॥ नक्तकः ३ । इति भरतः ॥ पर्व्वतविशेषः । यथा, कालिकापुराणे ८१ अध्यायः ॥ “नीलशैलस्य पूर्ब्बस्मिन् स्वरूपं प्रतिपादितम् । नाभिमण्डलपूर्ब्बस्यां भस्मकूटस्य दक्षिणे ॥ पूर्ब्बस्यां कर्पटो नाम पर्व्वतो यमरूपधृक् । तत्र याम्यशिला कृष्णा नीलाञ्जनसमप्रभा ॥ अधित्यकायां राजेन्द्र व्यामपञ्चसु विस्तृता । पूजयेत्तत्र शमनं पाणौ दण्डं सदैव यः ॥ धत्ते तु प्राणिनां नित्यं प्राणदण्डस्य साधनम् । कृष्णवर्णन्तु द्विभुजं किरीटमुकुटोज्ज्वलम् ॥ दधतञ्चासिपुत्त्रीञ्च वामपाणौ सदैव हि । कृष्णवस्त्रं स्थूलपदं वहिर्निःसृतदन्तकम् ॥ वराभयकरं नित्यं नृणां महिषवाहनम् । पूजयेत् परया भक्त्या याम्यवीजेन साधकः ॥ उपान्त्यवर्गस्यादिर्यो वर्णो विन्द्विन्दुसंयुतः । यमवीजमिति ख्यातं यमस्य प्रीतिकारकम् ॥ अनेनैव तु मन्त्रेण शमनं यस्तु पूजयेत् । कर्पटाख्येऽचलवरे नापमृत्युं समाप्नुयात्” ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्पटः [karpaṭḥ] टम् [ṭam], टम् 1 Old, ragged or patched garment.
A piece of cloth, strip.
A soiled garment; or a red coloured garment.
A cloth; Pt.5.
