सामग्री पर जाएँ

कर्पूरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्पूरः, पुं, क्ली, (कृप् + “खर्जूरादित्वात्” उणां ४ । ९० । इति ऊरः ।) स्वनामख्यातसुगन्धिद्रव्यम् । काफुर इति पारस्य भाषा । कपूर् इति हिन्दी भाषा । (यथा, -- राजेन्द्रकर्णपूरे ३३ । “कर्पूरैरिव पारदैरि सुधास्यन्दैरिवाप्लाविते जाते हन्त ! दिवापि देव ! ककुभां गर्भे भवत्की- र्त्तिभिः” ॥) तत्पर्य्यायः । घनसारः २ चन्द्रसंज्ञः ३ सिताभ्रः ४ हिमवालुका ५ । इत्यमरः २ । ६ । १३० ॥ सिताभः ६ । इति तट्टीका ॥ घनसारकः ७ सितकरः ८ शीतः ९ शशाङ्कः १० शिला ११ शीतांशुः १२ हिमवालुकः १३ हिमकरः १४ शीतप्रभः १५ शाम्भवः १६ शुभ्रांशुः १७ स्फटि- काभ्रः १८ कारमिहिका १९ ताराभ्रः २० चन्द्रार्द्रकः २१ चन्द्रः २२ लोकतुषारः २३ गौरः २४ कुमुदः २५ हनुः २६ हिमाह्वयः २७ चन्द्र- भस्म २८ वेधकः २९ रेणुसारकः ३० । इति शब्दरत्नावली ॥ अस्य गुणाः । शिशिरत्वम् । तिक्त- त्वम् । कटुत्वम् । श्लेष्मरक्तपित्ततृष्णाविदाह- कण्ठस्थदोषोष्णरोगनाशित्वञ्च ॥ “कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णास्रदाहदः । चिरस्थो दाहशोषघ्नः स धौतः शुभकृत्परः” ॥ इति राजनिर्घण्टः ॥ अपि च । पाके शीतलत्वम् । चक्षुर्हितकारित्वम् । पक्वकर्पूरादपक्वस्याधिकगुणत्वञ्च । इति राज- बल्लभः ॥ तद्भेदा यथा । पोतासः १ भीमसेनः २ सितकरः ३ शङ्करावाससंज्ञः ४ पांशुः ५ पिञ्जः ६ अब्दसारः ७ हिमबालुकः ८ जूतिका ९ तुषारः १० हिमः ११ शीतलः १२ पत्रिकाख्यः १३ । इति राजनिर्घण्टः ॥ (तत्रादौ कर्पूरस्य नाम गुणाश्च । “कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः । सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः । दाहतृष्णास्यवैरस्यमेदो दौर्गन्ध्यनाशनः ॥ कर्पूरोद्विविधः प्रोक्तः पक्वापक्वप्रभेदतः । पक्वात् कर्पूरतः प्राहुरपक्वं गुणवत्तरम्” ॥ अथ चीनाककर्पूरः । चीनेकर्पूर इति भाषा । “चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः । कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे १ म भागे ॥ “सतिक्तः सुरभिः शीतः कर्पूरो लघुलेखनः । तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः” ॥ इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्पूरः [karpūrḥ] रम् [ram], रम् [Un.4.9.] Camphor. -Comp. -अश्मन् Crystal. -केलिः N. of a flamingo; H.

खण्डः a field of camphor.

a piece of camphor. -तैलम् camphor liniment. -नालिका a kind of food. -मञ्जरी N. of a drama by Rājaśekhara.

मणिः a kind of jewel.

a white mineral (used in medicine) -रसः Quicksilver. -स्तवः a reputed panegyric in तन्त्रशास्त्र.

"https://sa.wiktionary.org/w/index.php?title=कर्पूरः&oldid=264892" इत्यस्माद् प्रतिप्राप्तम्