सामग्री पर जाएँ

कर्ब्बुदार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्ब्बुदारः, पुं, (कर्ब्बुरिव कर्ब्बुः सन् वा श्लेष्मानं मलं वा दारयतीति । कर्ब्बु + दृ + णिच् + अच् ।) कोविदारवृक्षः । इति शब्दमाला ॥ श्वेतकाञ्चनः । अस्य गुणौ । ग्राहित्वम् । रक्त- पित्तरोगे विशेषेण पथ्यत्वञ्च । इति राजवल्लभः ॥ (“शणस्य कोविदारस्य कर्ब्बुदारस्य शाल्मलेः । पुष्पं ग्राहि प्रशस्तस्य रक्तपित्ते विशेषतः” ॥ इति चरके सूत्रस्थाने । २७ अध्याये ॥) नीलझिण्टी । इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=कर्ब्बुदार&oldid=124750" इत्यस्माद् प्रतिप्राप्तम्