सामग्री पर जाएँ

कर्ब्बुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्ब्बुरम्, क्ली, (कर्ब्बति गर्ब्बत्यस्मात् यस्मिन् सति वा गर्ब्बो भवति कर्व्वत्यनेन वा । कर्ब्ब दर्पे इति “मद्गुरादयश्च” उणां १ । ४२ । इति उरच् ।) खर्णम् । धुस्तूरवृक्षः । इत्यमरः । २ । ९ । ९४ ॥ जलम् । इति मेदिनी ॥

कर्ब्बुरः, पुं, (कर्ब्बति हिनस्ति जीवम् । कर्ब्ब हिं- सायां + “मद्गुरादयश्च” । उणां । १ । ४२ । इति उरच् ।) राक्षसः । (“कर्ब्बुरः श्वेतरक्षसोः” उणाम् । १ । ४२ । कर्ब्बति नानावर्णतां गच्छति । कर्ब्ब गतौ + उरच् । उणां १ । ४२ ।) नानावर्णः । तत्पर्य्यायः । चित्रम् २ किर्म्मीरः ३ कल्माषः ४ शबलः ५ एतः ६ ॥ (यथा कुमारे । ४ । २७ । “इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्त ! किं स्थितम् । तदिदं कणशो विकीर्य्यते पवनैर्भस्म कपोतकर्ब्बुरम्” ॥) तद्वति त्रि । इत्यमरः । १ । ६ । १७ ॥ शटी । इत्यमरटीका ॥ पापम् । इति मेदिनी ॥ नदी- निष्पावधान्यम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=कर्ब्बुर&oldid=124758" इत्यस्माद् प्रतिप्राप्तम्