कर्म्म
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्म्म, [न्] क्ली, (यत्क्रियते तत् । कृ + मनिन् । कर्त्तुः क्रियया यद्व्याप्यते तद्वा कियाव्याप्यं कर्म्मेति केचित् । तत्तु मतभेदन त्रिधा चतुर्धेति विभक्त- मुच्यते ।) षट्कारकान्तर्गतकारकविशेषः । वोप- देवेनास्य ढ इति संज्ञा कृता । अत्र द्वितीया विभक्तिर्भवति । तस्मिन् उक्ते प्रथमा । तस्य लक्ष- णम् । “परसमवेतधात्वर्थजन्यफलशालित्वं कर्म्म- त्वम्” । इति सारमञ्जरी ॥ “यत्क्रियते तत्” । इति प्रसिद्धम् । करोतेर्निखिलक्रियावाचकत्वात् कर्त्तु- र्व्यापारैर्य्यत् साध्यते तदित्यर्थः । अतएव “क्रिया- व्याप्यं कर्म्म” । इति क्रमदीश्वरः । तच्चतुर्व्विधम् निर्व्वर्त्यम् १ यथा घटं करोति पुत्त्रंप्रसूते ॥ विकार्य्यम् २ तच्च द्विविधम् । प्रकृतेरुच्छेदकं प्रकृतेर्गुणान्तराधायकञ्च । आद्यं यथा काष्ठं भस्म करोति । अन्त्यं यथा सुवर्णं कुण्डलं करोति । यथा चोक्तं भर्त्तृहरिणा । “यदसज्जायते पूर्ब्बं जन्मना यत् प्रकाशते । तन्निर्वर्त्यं विकार्य्यञ्च कर्म्म द्वेधा व्यवस्थितम् ॥ प्रकृत्युच्छेदमम्भूतं विकार्य्यं काष्ठभस्मवत् । अन्यद्गुणान्तरोत्पत्त्या सुवर्णादिविकारचत्” ॥ प्राप्यम् ३ यथा ग्रामं गच्छति चन्द्रं पश्यतीत्यादि ॥ अनीप्सितञ्च ४ यथा पापं त्यजति इत्यादि । इति कारके २ मुग्धबोधसूत्रस्य टीकायां दुर्गा- दासः ॥ * ॥ सप्तपदार्थान्तर्गततृतीयपदार्थः । तत्तु पञ्चविधम् । यथा, -- भाषापरिच्छेदे ६, ७ । “उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा । प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च ॥ भ्रमणं रेचनं स्यन्दनोर्द्ध्वज्वलनमेव च । तिर्य्यग्गमनमप्यत्र गमनादेव लभ्यते” ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्म्म¦ mn. (-र्म्मः-र्म्मं) Act, action; see कर्म्मन्।
