सामग्री पर जाएँ

कर्म्मकरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्म्मकरः, त्रि, (कर्म्म करोति मूल्येन । डु कृञ् करणे + “कर्म्मणि भृतौ” । ३ । २ । २२ । इति टः ।) मूल्यं गृहीत्वा कर्म्म- कारकः । मजुर ठिकाचाकर इत्यादि भाषा । तत्पर्य्यायः । भृतकः २ भृतिभुक् ३ वैतनिकः ४ ॥ वेतनोपजीवी । तत्पर्य्यायः ॥ भरण्यभुक् २ । इत्य- मरः । ३ । १ । १९ ॥ कर्म्मण्यभुक् ३ । इति तट्टीका ॥ कर्म्मकर्त्तृमात्रञ्च ॥ (यथा, मिताक्षरायां नारदः । “शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्म्मकृत् । एते कर्म्मकरा ज्ञेयाः” ॥)

कर्म्मकरः, पुं, (कृञ् हिंसायां + मन् । कर्म्म हिंसां करोतीति । कृ + हेत्वादौ टः । यद्वा, जीवकृत- कर्म्माधिकृत्य करोति सुखदुःखयोर्व्यवस्थां निष्पा दयति नरकस्वर्गादिव्यवस्थां करोति वा । धर्म्मा- धर्म्मात्मकं कर्म्म समीक्ष्य सर्व्वान् शास्तीत्यर्थः । कर्म्मफलानुसारेण पापात्मनां दण्डप्रदानरूपहिं- सायामधिकारित्वात् अस्य तथात्वम् ।) यमः । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=कर्म्मकरः&oldid=124786" इत्यस्माद् प्रतिप्राप्तम्