सामग्री पर जाएँ

कर्म्मकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्म्मकारः, पुं, (कर्म्म वेतनं गृहीत्वा लोहादिभिः खड्गकर्त्तरिकादिकं करोति निर्म्मातीति । कर्म्म + कृ + उपपदे “कर्म्मण्यण्” । ३ । २ । १ । इति अण् ।) वर्णसङ्करविशेषः । लौहकारः । कामार इति भाषा । स तु शूद्रायां विश्वकर्म्मणो जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥ वृषः । इति शब्दचन्द्रिका ॥

कर्म्मकारः, त्रि, (कर्म्म करोति मृतिमृते । कर्म्म + कृ + अण् ।) वेतनं विना भारवहनादिकर्म्मकारकः । वेगार इति भाषा ॥ तत्पर्य्यायः । कर्म्मक्रियः २ । इत्यमरः । ३ । १ । १९ ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्म्मकार¦ त्रि॰ कर्म्म करोति अभृत्या अण् उप॰ स॰। विना वेतनेन

१ कर्म्मकारके (वेगार) (कामार) इतिप्रसिद्ध सङ्कीर्णजातिभेदे जातिशब्दे विवृतिः।
“हरिणाक्षि!कटाक्षेण आत्मानमवलोकय। नहि खड्गोविजानातिकर्म्मकारं स्वकारणम्” उद्भटः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्म्मकार¦ mfn. (-रः-री-रं)
1. A worker, one who does any business, an artisan, a mechanic.
2. One who performs any act. m. (-रः)
1. A [Page162-b+ 60] blacksmith, one of the progeny of the divine artist VISWAKARMA.
2. A bull. E. कर्म्म an act, कृञ् to perform, affix अण्।

"https://sa.wiktionary.org/w/index.php?title=कर्म्मकार&oldid=265608" इत्यस्माद् प्रतिप्राप्तम्