सामग्री पर जाएँ

कर्म्मजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्म्मजः, पुं, (कर्म्मणो जातः । विषयभोगवासनाव- शात् क्रमशः मलिनायमानो वृत्तिभिर्जात इत्यर्थः । जन + ड ।) कलियुगः । इति शब्दरत्नावली ॥ वटवृक्षः । इति जटाधरः ॥ क्रियाजन्ये त्रि । (यथा, मनुः । १२ । १०१ । “तथा दहति वेदज्ञः कर्म्मजं दोषमात्मनः” ॥ कारणभेदेन रोगभेदो यथा । “बहुभिरुपचारैस्तु येन यान्ति समन्ततः । ते कर्म्मजाः समुद्दिष्टा व्याधयो दारुणाः पुनः” ॥ इति हारीते चिकित्सितस्थाने २ अध्यायः ॥)

"https://sa.wiktionary.org/w/index.php?title=कर्म्मजः&oldid=124800" इत्यस्माद् प्रतिप्राप्तम्