कर्म्मयोगः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्म्मयोगः, पुं, (कर्म्मसु योगस्तत्कौशलम् ।) चित्त- शुद्धिजनकवैदिककर्म्म । यथा । निष्कामकर्म्म- णात्मज्ञानमित्युक्तं यथा । “अयमेव क्रियायोगो ज्ञानयोगस्य साधकः । कर्म्मयोगं विना ज्ञानं कस्यचिन्नैव दृश्यते ॥ सोऽपि दुरितक्षयद्वारा न साक्षात्” । इति मल- मासतत्त्वम् ॥ * ॥ तदनुष्ठानस्यावश्यकत्वं यथा । श्रीभगवानुवाच ॥ “लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ! । ज्ञानयोगेन सांख्यानां कर्म्मयोगेण योगिनाम् ॥ न कर्म्मणामनारम्भान्नैकर्म्म्यं पुरुषोऽश्नुते । न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥ न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्म्मकृत् । कार्य्यते ह्यवशः कर्म्म सर्व्वः प्रकृतिजैर्गुणैः ॥ कर्म्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्ज्जुन ! । कर्म्मेन्द्रियैः कर्म्मयोगमसक्तः स विशिष्यते ॥ नियतं कुरु कर्म्म त्वं कर्म्म ज्यायो ह्यकर्म्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्म्मणः ॥ यज्ञार्थात् कर्म्मणोऽन्यत्र लोकोऽयं कर्म्मबन्धनः । तदर्थं कर्म्म कौन्तेय ! मुक्तसङ्गः समाचर ॥ सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्व्क्ते स्तेन एव सः ॥ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्व्वकिल्विषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्म्मसमुद्भवः ॥ कर्म्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्व्वगतं व्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ एवं प्रवर्त्तितं चक्रं नानुवर्त्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ ! स जीवति ॥ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्य्यं न विद्यते ॥ नैव तस्य कृते नार्थो नाकृतेनेह कश्चन । न चास्य सर्व्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ तस्मादसक्तः सततं कार्य्यं कर्म्म समाचर । असक्तो ह्याचरन् कर्म्मपरमाप्नोति पूरुषः ॥ कर्म्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि संपश्यन् कर्त्तुमर्हसि ॥ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत् प्रमाणं कुरुते लोकस्तदनुवर्त्तते ॥ न मे पार्थास्ति कर्त्तव्यं त्रिषु लोकेष किञ्चन । नानवाप्तमवाप्तव्यं वर्त्त एव च कर्म्मणि ॥ यदि ह्यहं न वर्त्तेयं जातु कर्म्मण्यतन्द्रितः । मम वर्त्तानुवर्त्तन्ते मनुष्याः पार्थ ! सर्व्वशः ॥ उत्सीदेयुरिमे लोका न कुर्य्यां कर्म्म चेदहम् । सङ्करस्य च कर्त्ता स्यामुपहन्यामिमाः प्रजाः ॥ सक्ताः कर्म्मण्यविद्वांसो यथा कुर्व्वन्ति भारत । कुर्य्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ न बुद्धिभेदं जनयेदज्ञानां कर्म्मसङ्गिनाम् । योजयेत् सर्व्वकर्म्माणि विद्वान् युक्तः समाचरन् ॥ प्रकृतेः क्रियमाणानि गुणैः कर्म्माणि सर्व्वशः । अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते ॥ तत्त्ववित्तु महाबाहो गुणकर्म्मविभागयोः । गुणा गुणेषु वर्त्तन्त इति मत्वा न सज्जते ॥ प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्म्मसु । तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥ मयि सर्व्वाणि कर्म्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्म्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्म्मभिः ॥ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्व्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥ सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रह्रः किं करिष्यति ॥ इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ श्रेयान् स्वधर्म्मो विगुणः परधर्म्मात् स्वनुष्ठितात् । स्वधर्म्मे निधनं श्रेयः परधर्म्मो भयावहः” ॥ इति श्रीभगवद्गीतायां कर्म्मयोगो नाम ३ अ- ध्यायः ॥ * ॥ अन्यत् भगवन्मन्दिरादिकरणं वह्नि- पुराणे यमानुशासननामाध्याये द्रष्टव्यम् ॥
