सामग्री पर जाएँ

कर्म्मरङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्म्मरङ्गः, पुं, क्ली, (कर्म्मणे हिंसाक्रियायै तत्फल- भक्षणकारिणां रोगादिजननक्रियायै इत्यर्थः रज्यते पर्य्याप्यते । कृ हिंसायां इति धातो- मनिन् प्रत्ययेन निष्पण्णत्वात् ततो कर्म्मन् + रन्ज + घञ् ।) फलवृक्षविशेषः । कामराङ्गा इति भाषा ॥ (यथा, रामायणे । ३ । १७ । ८ । गों । “सोमवृक्षान् कर्म्मरङ्गान् पियालांश्चक्वचित्क्वचित्” ॥) तत्पर्य्यायः । शिरालः २ वृहदम्लः ३ रुजाकरः ४ । इति शब्दचन्द्रिका ॥ कर्म्मारः ५ कर्म्मरकः ६ पीतफलः ७ कर्म्मरः ८ मुद्गरकः ९ मुद्गरः १० धराफलः ११ कर्म्मारकः १२ । अस्य गुणाः । अम्लत्वम् । उष्णत्वम् । वातहारित्वम् । पित्तकारि- त्वञ्च । इति राजनिर्घण्टः ॥ तीक्ष्णत्वम् । कटुपाकि- त्वम् । अम्लपित्तकारित्वञ्च । इति राजबल्लभः ॥ तत्पक्वफलगुणः । मधुराम्लत्वम् । बलपुष्टिरुचिप्रद- त्वञ्च । इति राजनिर्घण्टः ॥ (“कर्म्मरङ्गं हिमंग्राहि स्वाद्वम्लं कफवातहृत्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे १ म भागे ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्म्मरङ्ग¦ पुंन॰ कर्मणे हिंसायै रज्यते रन्ज--घञ् अश्व-घासादिवत् निमित्तार्थे

६ त॰। (कामराङ्गा)

१ शिराल-फलके वृक्षे शब्दच॰

२ तत्फले न॰ तद्गुणा भाव॰ उक्ताः
“कर्मरङ्गं हिमं ग्राहि स्वाद्वम्लं कफवातहृत्” कफवात-[Page1742-a+ 38] हिंसकत्वाच्च तस्य कर्म्मरङ्गनामतेति बोध्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्म्मरङ्ग¦ n. (-ङ्गं) A plant bearing an acid fruit, (Averrhoa carambola.)

"https://sa.wiktionary.org/w/index.php?title=कर्म्मरङ्ग&oldid=265746" इत्यस्माद् प्रतिप्राप्तम्