सामग्री पर जाएँ

कर्म्मविपाकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्म्मविपाकः, पुं, (कर्म्मणः अधर्म्ममूलकस्य अशुभ- फलजनकस्येति यावत् विपाकः परिणामः । इह रोगादिभोगजनकदुःखमयपरिणामः । अमुत्र नर- कभोगादिजनकदुःखमयपरिणामश्च ।) अशुभकर्म्म जन्यफलस्य विपाकः । रोगादिरूपजन्मान्तरीया- शुभकर्म्मफलभोग इति यावत् । तद्विवरणं यथा, -- “नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते । पतितात् प्रतिगृह्याथावरयोनिं व्रजेद्बुधः ॥ नरकात् प्रतिमुक्तस्तु कृमिर्भवति पातकः । उपाध्यायव्यलीकन्तु कृत्वा श्वा मवति द्विजः ॥ तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् । गर्दभो जायते जन्तुर्म्मित्रस्यैवापमानकृत् ॥ मात्रादीतरमाक्रम्य शारिका संप्रजायते । पितरौ पीडयित्वा तु कच्छपत्वञ्च गच्छति ॥ भर्त्तुः पिण्डमुपाश्वस्तो हित्वान्यानि निषेवयेत् । सोऽपि मोहसमापन्नो जायते वानरो मृतः ॥ न्यासापहर्त्ता नरकात् विमुक्तो जायते कृमिः । असूयकश्च नरकान्मुक्तो भवति राक्षसः ॥ विश्वासहर्त्ता च नरो मीनयोनौ प्रजायते । यवधान्यानि हृत्वा तु जायते मूशिको मृतः ॥ परदाराभिमर्षात्तु वृको घोरोऽभिजायते । भ्रातृभार्य्याप्रसङ्गत्वे कोकिलो जायते नरः ॥ गुर्व्वादिभार्य्यागमनात् शूकरो जायते नरः । यज्ञदानविवाहानां विघ्नकर्त्ता भवेत् कृमिः ॥ देवतापितृविप्राणामदत्त्वा योऽन्नमश्नुते । प्रमुक्तो नरकाद्वापि वायसः स प्रजायते ॥ ज्येष्ठभ्रात्रवमानाच्च क्रौञ्चयोनौ प्रजायते । शूद्रश्च ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ॥ तस्यामपत्यमुत्पाद्य काष्ठान्तःकीटको भवेत् । कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ॥ अशस्त्रं पुरुषं हत्वा नरः संजायते खरः । कृमिः स्त्रीवधकर्त्ता च बालहन्ता च जायते ॥ सत्यं हितार्थता चोक्तिर्वेदप्रामाण्यदर्शनम् ॥ गुरुदेवर्षिपूजा च केवलं साधुसङ्गमः । सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः । अष्टाङ्गयोगविज्ञानात् प्राप्नोत्यात्यन्तिकं फलम्” ॥ इति गारुडे कर्म्मविपाकः २२९ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=कर्म्मविपाकः&oldid=124860" इत्यस्माद् प्रतिप्राप्तम्