कर्म्मसाक्षिन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्म्मसाक्षी, [न्] पुं, (कर्म्मणां साक्षी । यद्वा कर्म्म साक्षात् पश्यति प्रतक्षं करोतिति ।) सूर्य्यः । इति हेमचन्द्रः ॥ (उक्तञ्च वैदिकक्रियापद्धतौ यथा, “सूर्य्यः सोमो यमः कालो महाभूतानि पञ्च च । एते शुभाशुभस्येह कर्म्मणो नव साक्षिणः” ॥ क्रियासाक्षात्कारिणि, त्रि । यथा, -- महाभा- रते । १ । ४७ । २९ । “हृदि स्थितः कर्म्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्म्मसाक्षिन्¦ पु॰ साक्षात् पश्यति नि॰ साक्षी
६ त॰।
“सूर्य्यः सोमो यमः कालो महाभूतानि पञ्च च। एते शुभाशुभस्येह कर्मणो नव साक्षिणः” इत्युक्तेषु सूर्य्या-दिषु नवसु।
६ त॰। क्रियासाक्षात्कर्त्तृमात्रे त्रि॰।
“योयस्तत्कर्मसाक्षी स्वभुजबलयुतोयश्च यश्च प्रतीपः” वेणी॰
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्म्मसाक्षिन्¦ m. (-क्षी) The sun E. कर्म, and साक्षिन् an evidence; who beholds all deeds.