सामग्री पर जाएँ

कर्म्मसाक्षी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्म्मसाक्षी, [न्] पुं, (कर्म्मणां साक्षी । यद्वा कर्म्म साक्षात् पश्यति प्रतक्षं करोतिति ।) सूर्य्यः । इति हेमचन्द्रः ॥ (उक्तञ्च वैदिकक्रियापद्धतौ यथा, “सूर्य्यः सोमो यमः कालो महाभूतानि पञ्च च । एते शुभाशुभस्येह कर्म्मणो नव साक्षिणः” ॥ क्रियासाक्षात्कारिणि, त्रि । यथा, -- महाभा- रते । १ । ४७ । २९ । “हृदि स्थितः कर्म्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति” ॥)

"https://sa.wiktionary.org/w/index.php?title=कर्म्मसाक्षी&oldid=124880" इत्यस्माद् प्रतिप्राप्तम्