सामग्री पर जाएँ

कर्व्वुरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कर्व्वुरः, पुं, (कृणाति हिनस्ति प्राणिनः । किरति विक्षिपति जीवानिति वा । कॄ + “कॄगॄशॄवृच- तिभ्यः ष्वरच्” । उणां । २ । १२३ । इति ष्वरच् ।) राक्षसः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ व्याघ्रः । इति मेदिनी ॥ (यथा, उणादिटीका “कर्व्वुरो व्याघ्ररक्षसोः” । २ । १२३ ॥)

कर्व्वुरः, पुं, (कर्व्वति हिनस्ति सदर्पो भवति वा । कर्व्व दर्पे हिंसायाञ्च । “मद्गुरादयश्चेति” + उरच् ।) राक्षसः । इति शब्दार्णवः ॥ चित्रवर्णः । इत्यमरः । २ । ९ । ९४ ॥ शटी । इति भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=कर्व्वुरः&oldid=124926" इत्यस्माद् प्रतिप्राप्तम्