कर्षूः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्षूः, पुं, (कृष् + “कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः” । उणां १ । ८२ । इति ऊः ।) वार्त्ता । करी- षाग्निः । इत्यमरः । ३ । ३ । २२१ ॥ वार्त्ता अत्र- कृषिः । इति रमानाथः ॥ जीविका । इति भरतः ॥
कर्षूः, स्त्री, (कृष् विलेखने + “कृषिचमितनीति” ऊः उणां १ । ८२ ।) कुल्या । अल्पा कृत्रिमा सरित् । इत्यमरः । ३ । ३ । २२१ ॥ नदीमात्रम् । इति रत्नकोषः ॥ इष्टखातः । इति मेदिनी ॥ तद्यथा । चतुरङ्गुलपृथ्वीस्तावदन्त रास्तथाधः खाता वितस्त्यायतास्तिस्रः कर्षूः कुर्य्यात् कर्षूसभीपे अग्नित्रयमुपसमाधाय परिस्तीर्य्य तत्रैकैकस्मिन्ना- हुतित्रयं जुहुयात् । इति श्राद्धविवेक धृतविष्णु- सूत्रम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्षूः [karṣūḥ], f.
A furrow, trench.
A river.
Canal.
A pit; कर्षूं खात्वा ... बिभरासि । Śat. Bṛ. (मत्स्यो- पाख्यान); कर्षूर्वार्ताकरीषाग्निलेखनेषु च खातने कुल्यायां तु कर्षूः ... Nm.-m.
A fire of dried cow-dung.
Agriculture, cultivation.
Livelihood.
