कलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलः, पुं, (कल + भावे घञ् वृद्ध्यभावः ।) मधुरास्फुट- ध्वनिः । इत्यमरः । १ । ७ । २ ॥ (“जगौ कलं वामदृशां मनोहरम्” ॥ इति भागवतम् । १० । २९ । ३ ॥) सालवृक्षः । इति राजनिर्घण्टः ॥
कलः, त्रि, (कलयति मान्द्यं नयति जाठराग्निम् । कल + णिच् + अच् । धातूनामनेकार्थत्वात् विशेषतः कलिहलिरित्युक्तेश्च तथात्वम् ।) अजीर्णः । इति मेदिनी ॥ (अव्यक्तमधुरध्वनिः । यथा रघुः । १ । ४१ । “सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ” ॥)
