सामग्री पर जाएँ

कलभः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कलभः, पुं, (कलेन करेण शुण्डेनेति यावत् भाति । कल + भा + कः । यद्वा + कल् गतौ “कृशॄशलि- कलिगर्द्दिभ्योऽभच् । उणां । ३ । १२२ । इति । अभच् ।) करभः । हातिर छा इति भाषा । स तु पञ्चवर्षपर्य्यन्तम् । इति सुभूतिः ॥ तत्पर्य्यायः । करिशावकः २ । इत्यमरः । २ । ८ । ३५ ॥ दुर्द्दान्तः ३ व्यालः ४ । (यथा रघौ । ३ । ३२ । “महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव” ॥) धत्तूरवृक्षः । इति राजनिर्घण्टः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कलभः [kalabhḥ], (भी f.) [कल्-अभच् Uṇ.3.122; करणे शुण्डया भाति; भा-क, रस्य लत्वम् Tv.]

A young elephant, cub; ननु कलभेन यूथपतेरनुकृतम् M.5; द्विपेन्द्रभावं कलभः श्रयन्निव R.3.32;11.39;18.38. Bhāg.8.2.23.

An elephant 3 years old.

A young camel; the young of any other animal.

A particular fragrant substance used as an unguent, कलभः करिपोतके । अङ्गलेपन वस्तूनां विशेषे$पि पुमान् भवेत् । Nm.

"https://sa.wiktionary.org/w/index.php?title=कलभः&oldid=266279" इत्यस्माद् प्रतिप्राप्तम्