सामग्री पर जाएँ

कलमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कलमः, पुं, (कलते कलयति वा अक्षरं प्रकाशयति जनयति वा । कल + “कलिकर्द्दोरमः” । उणां । ४ । ८४ इति अमः ।) स्वनामख्यातलिपिसाधनवस्तु । तत्पर्य्यायः । लेखनी २ वर्णतूली ३ अक्षरतूलिका ४ । इति जटाधरः ॥ स्वनामख्यातशालिधान्य- विशेषः । (यथा, रघुः । ४ । ३७ । “आपादपद्मप्रणताः कलमा इव ते रघुम् । फलैः संवर्द्धयामासुरुत्खातप्रतिरोपिताः” ॥) अस्य गुणाः । रक्तदोषत्रिदीषनाशित्वम् । चक्षु- र्हितकारित्वम् । कषायत्वञ्च । इति राजवल्लभः ॥ “रक्तशालिर्महाशालिः कलमः षष्टिकोऽपरः” । इति हारीते प्रथमस्थाने १० अध्याये ॥ (“शूकजेषु वरस्तत्र रक्ततृष्णात्रिदोषहा ॥ महांस्तस्यानुकलमस्तञ्चाप्यनु ततः परे” ॥ इति वाभटे सूत्रस्थाने ६ अध्याये ॥) चौरः । इति मेदिनी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कलमः [kalamḥ], [Uṇ.4.84]

Rice which is sown in MayJune and ripens in December-January; प्रसूतं कलमक्षेत्रं वर्षेणेव शतक्रतुः Rām.4.14.16. सुतेन पाण्डोः कलमस्य गोपिकाम् Ki.4.9,34; Ku.5.47; आपादपद्मप्रणता कलमा इव ते रघुम् । फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः ॥ R.4.37. कलयता कलमावन- कामिनीकलमनोहरगानममन्यत Rām. Ch.4.72.

A pen, a reed for writing with.

A thief.

A rogue, rascal.-Comp. -गोपवध, -गोपी a woman employed to guard a rice-field; Śi.6.49.

"https://sa.wiktionary.org/w/index.php?title=कलमः&oldid=266307" इत्यस्माद् प्रतिप्राप्तम्