सामग्री पर जाएँ

कलरवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कलरवः, पुं, (कलः मधुरास्फुटो रवः ध्वनिर्यस्य ।) कपोतः । पायरा इति भाषा । इत्यमरः । २ । ५ । १४ ॥ (यथा आर्य्यासप्तशती ५९७ । “शीर्णप्रासादोपरि जिगीषुरिव कलरवः क्वणति” ॥) कोकिलः । इति राजनिर्घण्टः ॥ (यथा, ब्रह्म- पुराणे ५२ । ३४ । “कोलिलैः कलरवैश्च” ॥) मधुराव्यक्तध्वनिः । इति कलशब्दार्थे अमरः ॥ (कलएव रवः । कर्म्मधारयः ॥ यथा कलाबि- लासे १ । ६ । “नवविसकिसलयकबलन- कषायकलहंसकलरवो यत्र” ॥)

"https://sa.wiktionary.org/w/index.php?title=कलरवः&oldid=125100" इत्यस्माद् प्रतिप्राप्तम्