कलशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलशः, त्रि, (कलं मधुराव्यक्तशब्दं शवति जलपूरण- समये प्राप्नोति । कल + शुगतौ + डः ।) जलाधार- विशेषः । कलशी इति ख्यातः । (यथा आर्य्या- सप्तशती ६९० । “प्रबलो विदरयिष्यति जलकलशं नीरलेखेव” ॥) तत्पर्य्यायः । घटः २ कुटः ३ निपः ४ । इत्यमरः । २ । ९ । ३२ ॥ कलसः ५ कलसिः ६ कलसी ७ कलसम् ८ कलशिः ९ कलशीः १० कलशम् ११ । इति तट्टीका ॥ कुम्भः १२ करीरः १३ । इति हेमचन्द्रः । कलावतीदीक्षाप्रकरणोक्तं तस्य परि- माणं । यथा, तन्त्रसारे । “पञ्चाशदङ्गुलव्याम उत्सेधः षोडशाङ्गुलः । कलशानां प्रमाणन्तु मुखमष्टाङ्गुलं स्मृतम् ॥ षट् त्रिंशदङ्गुलं कुम्भं विस्तारोन्नतिशालिनम् । षोडशं द्वादशं वापि ततो न्यूनं न कारयेत्” ॥
