सामग्री पर जाएँ

कलसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कलसः, त्रि, (केन जलेन लसति शोभते । क + लस् + अच् ।) कलशः । घटः । इति हेमचन्द्रः ॥ द्रोणपरिमाणे, पुं, । इति वैद्यकपरिभाषा ॥ (“चतुर्भिराढकैर्द्रोणः कलसो नल्वणोर्म्मणः” ॥ इति शार्ङ्गधरे पूर्ब्बखण्डे १ अध्याये ॥ “स एव कलसः ख्यातो घटस्तून्मानमेव च” ॥ इति चरके कल्पस्थाने १२ अध्याये ॥)

कलसः, पुं, (केन जलेन लसतौति । लस् + अच् ।) कुम्भः । अस्योत्पत्त्यादिर्यथा, -- “सागरे मथ्यमाने तु पीयूषार्थं सुरासुरैः । पूब्बं वहिःस्थापितेषु ग्रहाणां कलसेषु च ॥ नवग्रहान् पूजयेत्तु मातॄर्मातृघटेषु च । सर्व्वे देवा घटे पूज्या घटस्तेषां पृथक् पृथक् ॥ नवैव तत्र पूर्ब्बोक्ताः स्मृता मुख्यतमा नृप । भक्ष्यैर्भोज्यैश्च पेयैश्च पुष्पैर्नानाविधैः फलैः ॥ यावकैः पायसैश्चापि यथासम्भवयोजितैः । पुष्यस्नानाय नृपतिः पूजयेत् सकलान् सुरान्” ॥ इति कालिकापुराणे पुष्याभिषेकः ८७ अ- ध्यायः ॥ * ॥ अन्यत् धारकशब्दे द्रष्ठव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=कलसः&oldid=125130" इत्यस्माद् प्रतिप्राप्तम्