कलहान्तरिता
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलहान्तरिता, स्त्री, (कलहादन्तरिता पश्चात् परितापमाप्ता ।) नायिकाभेदः । अस्या लक्ष- णम् । पतिमवमन्य पश्चात् परितप्ता । अस्याः क्रिया । भ्रान्तिः । सन्तापः । सम्मोहः । निश्वासः । ज्वरः । प्रलापादिः । इति रसमञ्जरी ॥ (तथा च साहित्यदर्पणे ३ । ८६ । “चाटुकारमपि प्राणनाथं रोषादपास्य या । पश्चात्तापमवाप्नोति कलहान्तरिता तु सा” ॥ उदाहरणमाह तत्रैव । “नो चाटुश्रवणं कृतं न च दृशा हारोऽन्तिके वीक्षितः, कान्तस्य प्रिय- हेतवे निजसखीवाचोऽपि दूरीकृताः । पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया, पाणि- भ्यामवरुध्य हन्त ! सहसा कण्ठे कथं नार्पितः” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलहान्तरिता¦ स्त्री अवस्थान्तरप्राप्ते नायिकाभेदे। सा च
“चाटुकारमपि प्राणनाथं दोषादपास्य या। पश्चात्तापम-बाप्नोति कलहान्तरिता तु सा” सा॰ द॰ उक्तलक्षणा। यथा
“नो चाटुश्रवणं कृतं न च दृशा हारोऽन्तिकेवीक्षितः कान्तस्य प्रियहेतवे निजसखीवाचोऽपि दूरी-कृताः। पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढयापाणिभ्यामवरुध्य हन्त सहसा कण्ठे कथं नार्पितः?”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलहान्तरिता¦ f. (-ता) An appeased wife, one who has been angry and is sorry for it. E. कलह strife, अन्तरित covered, &c. fem. affix टाप्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलहान्तरिता/ कलहा f. a heroine separated from her lover in consequence of a quarrel Sa1h. Gi1t. etc.