सामग्री पर जाएँ

कलापः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कलापः, पुं, (कलां मात्रां आप्नोति । कला + आप् + “कर्म्मण्यण” । ३ । २ । १ । इति अण् । यद्वा कला आप्यतेऽनेन “हलश्च” । ३ । ३ । १२१ । इति घञ् ।) समूहः । (यथा भागवते ४ । २४ । ६२ । “क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये” ॥) मयूरपिच्छः । (यथा, गोः रामायणे । ५ । ५२ । १३ “संप्रदीप्तकलापाग्रा विप्रकीर्णाश्च वर्हिणः” ॥) काञ्ची । भूषणम् । (यथा कुमारे । १ । ४२ । “कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य” ॥ “मुक्ताकलापस्य मुक्ताभूषणस्य” । इति मल्लिनाथः ॥) तूणः । (यथा हेः रामायणे २ । ५२ । ११ । “ततः कलापान् सन्नह्य खङ्गौ बद्ध्वा च धन्विनौ” ॥) चन्द्रः । विदग्धः । व्याकरणविशेषः । इति मे- दिनी ॥ (यथा, वृहत्कथासारः । “अधुना स्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति । तद्वाहनकलापस्य नाम्ना कालापकं तथा” ॥) ग्रामविशेषः । यथा, भागवते । ९ । १२ । ६ । “देवापिर्योगमास्थाय कलापग्राममाश्रितः । सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति” ॥ (अस्त्रविशेषः । यथा महाभारते ४ । ५ । २८ । “खड्गांश्च दीप्तान् दीर्घांश्च कलापांश्च महाधनान् । विपाठान् क्षुरधारांश्च धनुर्भिर्निदधुः सह” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कलापः [kalāpḥ], 1 A band, bundle; समित्कलापमादाय प्रविवेश स्वमाश्रमम् Mb.3.137.1. मुक्ताकलापस्य च निस्तलस्य Ku.1. 42 a round necklace of pearls; रशनाकलापः a zone of several strings.

A group or whole collection of things; अखिलकलाकलापालोचन K.7.

A peacock's tail; तं मे जातकलापं प्रेषय मणिकण्ठकं शिखिनम् V.5.13; Pt.2.8. Ṛs.1.16,2.14.

A woman's zone or girdle; (oft. with काञ्ची or रशना &c.) जघनमरुणरत्नग्रन्थिकाञ्चीकलापं कुवलय- नयनाना को विहातुं समर्थः Bh.1.11. श्रोणीतटं सुविपुलं रशना- कलापैः Ṛs.3.2; Mk.1.27.

An ornament in general; Mb.8.19.29. 'कलापः संहते बर्हे तूणीरे भूषणे हरे' इति विश्वः

The rope round an elephant's neck.

A quiver.

An arrow.

The moon.

A shrewed and intelligent man.

A poem written in one metre.

A tuft (जटा˚) or knot of braided hair. -पी A bundle of grass.

"https://sa.wiktionary.org/w/index.php?title=कलापः&oldid=266640" इत्यस्माद् प्रतिप्राप्तम्