कलिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलिः, पुं, (कलते कलेराश्रयत्वेन वर्त्तते इति । कल + “सर्व्वधातुभ्य इन्” । उणां ४ । ११७ । इति इन् ।) विभीतकवृक्षः । (विभीतकस्य कलिद्रुमत्व- कारणमुक्तं यथा, वामने २७ अध्याये । “इत्येवमुक्तो देवेन ब्रह्मणा कलिरव्ययः । दीनान् दृष्ट्वा च शक्रादीन् विभीतकवनं ययौ” ॥ अस्य गुणादिकं विभीतकशब्दे द्रष्टव्यम् ॥ * ॥ कलते स्पर्द्धते इति कल + “सर्व्वधातुभ्यः इन्” । उणां-४ । ११७ । इति इन् ।) शूरः । (कलन्ते स्पर्द्ध- माना भाषन्तेऽस्मिन्निति । कल + “सर्व्वधातुभ्य इन्” । उणां ४ । ११७ । इति इन् ।) विवादः । (यथा, भागवते ९ । ६ । ४४ । “तासां कलिरभूद्भूयांस्तदर्थेऽपोह्य सौहृदम् । समानुरूपो नायं व इति तद्गतचेतसाम्” ॥) युद्धम् । (कल्यते पापेषु निक्षिप्यते अनेन यद्वा कलयति पापेन जडयति कलुषितं करोति । कल + इन् ।) अन्त्ययुगम् । इति हेमचन्द्रः ॥ तस्योत्पत्तिर्यथा । “प्रलयान्ते जगतस्रष्टा ब्रह्मा लोकपितामहः । ससर्ज्ज घोरं मलिनं पृष्ठदेशात् सपातकम् ॥ सचाधर्म्म इति ख्यातस्तस्य वंशानुकीर्त्तनात् । श्रवणात् स्मरणाल्लोकः सर्व्वपापैः प्रमुच्यते ॥ अधर्म्मस्य प्रिया रम्या मिथ्या मार्ज्जारलोचना । तस्याः पुत्त्रोऽतितेजस्वी दम्भः परमकोपनः ॥ स मायायां भगिन्यान्तु लोभं पुत्त्रञ्च कन्यकाम् । निकृतिं जनयामास तयोः क्रोधः सुतोऽभवत् ॥ स हिंसायां भगिन्यान्तु जनयामास तत्कलिम् । वामहस्तधृतोपस्थं तैलाभ्यक्ताञ्जनप्रभम् ॥ काकोदरं करालास्यं लोलजिह्वं भयानकम् । पूतिगन्धं द्यूतमद्यस्त्रीसुवर्णकृताश्रयम् ॥ भगिन्यान्तु दुरुक्त्यां स भयं पुत्त्रञ्च कन्यकाम् । मृत्युं संजनयामास तयोश्च निरयोऽभवत् ॥ यातनायां भगिन्यान्तु लोभपुत्त्रायुतायुतम् । इत्थं कलिकुले जाता बहवो धर्म्मनिन्दकाः” ॥ इति कल्किपुरणे १ अध्यायः ॥ * ॥ कलिधर्म्मो यथा । “यदा सदानृतं तन्द्रानिद्रा हिंसा विषादनम् । शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥ यस्मिन् जनाः कामिनः स्युः शश्वत्कटुकभाषिणः । दस्युकृष्टा जनपदा वेदाः पाषण्डदूषिताः ॥ राजानश्च प्रजाभक्षाः शिश्नोदरपरा द्विजाः । अव्रता वटवो ऽशौचा भिक्षवश्च कुटुम्बिनः ॥ तपस्विनो ग्रामवासा न्यासिनो ह्यर्थलोलुपाः । ह्रस्वकाया महाहाराश्चौर्य्यमायोरुसाहसाः ॥ त्यक्ष्यन्ति भृत्याश्च पतिं तापसास्त्वखिलं व्रतं । शूद्राः प्रतिग्रहीष्यन्ति तपोवेशोपजीविनः ॥ उद्विग्नाश्चानलङ्काराः पिशाचसदृशाः प्रजाः । अस्नातभोजनेनाग्निदेवतातिथिपूजनम् ॥ करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् । स्त्रीपराश्च जनाः सर्व्वे शृद्रप्रायाश्च शौनक ॥ बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः । शिरःकण्डयनपरा आज्ञां भेत्स्यन्ति सत्पतेः ॥ विष्णुं न पूजयिष्यन्ति पाषण्डोपहता जनाः ॥ कलेर्द्दोषनिधेर्विप्र अस्ति ह्येको महान् गुणः । कीर्त्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥ कृते यद्ध्यायतो विष्णुं त्रेतायां यजतः फलम् । द्वापरे परिचर्य्यायां कलौ तद्धरिकीर्त्तनात् ॥ तस्मार्द्ध्ययो हरिर्नित्यं ध्येयः पूज्यश्च शौनक” ॥ इति गारुडे युगधर्म्मे २२७ अध्यायः ॥ (माघिपूर्णिमायां शुक्रवारे कलियुगोत्पत्तिः ॥) तद्युगमानम् । द्वात्रिंशत्सहस्राधिकचतुर्लक्षवत्- सराः (४३२०००) । (आर्य्यभट्टमते ऽत्र १५७७९१७५० दिवसाः । सूर्य्यसिद्धान्तमते १५७७९१७८२ । ४८ दिवसाः । ज्योतिषसैद्धान्तिकमतेच १५७७९१७८२ दिवसाः ॥ अतो वर्षमाणमार्य्यभट्टमते ३६५ । १५ । ३१ । १५ । दिवसाः । सूर्य्यसिद्धान्तमते ३६५ । १५ । ३१ । ३१ । २४ । दिवसाः । ज्योतिषसैद्धान्तिकमते च ३६५ । १५ । ३१ । ३० दिवसाः ॥) तस्यातीताब्दाः १८०९ शाकपर्य्यन्तं ४९८८ ॥
कलिः, स्त्री, (कलयति ईषत्प्रकाशते उद्भिद्यते वा कल् + ततः इन् ।) कलिका । इति मेदिनी ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलिः [kaliḥ], [कल्-इनि]
Strife, quarrel, dissension, contention; शठ कलिरेष महांस्त्वयाद्य दत्तः Śi.7.55; कलिकामजित् R.9.33, Amaru.23.
War, battle. अविषह्यैस्तमाक्षेपैः क्षिपन्संजनयन् कलिम् । Bhāg.1.55.17.
The fourth age of the world, the iron age (consisting of 432, years of men and beginning from the 13th of February 312 B. C.); दानमेकं कलौ युगे Ms.1.86,9.31; कलिवर्ज्यानि इमानि &c.
Kali age personified (this Kali persecuted Nala).
The worst of any class.
The Bibhītaka tree.
The side of a die which is marked with one point. घृतेन कलिं शिक्षामि Av.7.19.1.
A hero.
An arrow. -f. A bud.
Comp. कारः, कारकः, क्रियः an epithet of Nārada.
the karanja tree.
a kind of bird. -द्रुमः, -वृक्षः the Bibhītaka tree. -प्रिय a. quarrelsome.
(यः) N. of Nārada.
a monkey, ape; Ms.1.85. -मारकः a kind of karanja tree. -युगम् the Kali age; Ms.1.85.-संतरणम् N. of an Upaniṣad. -हारी f. a kind of medicine (विषलाङ्गली).
