कलिङ्गः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलिङ्गः, पुं, (कलिं पूतिगन्धादिकं गच्छति प्राप्नोति कलि + गम् + ड । निपातनात् साधुः ।) पूतिक- रजवृक्षः । (के मस्तके लिङ्गं पीतादिचिह्नमस्य ।) धूम्याटपक्षी । देशविशेषः । इति हेमचन्द्रः ॥ (स्वनामख्यातो नृपतिविशेषः । अस्य नामानुसारे- णैव कलिङ्ग इति देशाख्या जाता । यदुक्तं महा भारते । १ । १०४ । ४९, ५० । “अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः । तेषां देशाः समाख्याताः स्वनामप्रथिता भुवि ॥ अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः । कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः” ॥) मेदिनीमते जलपदार्थे पुं भूम्नि । (यदुक्तं तत्रैव गत्रिके ३३ । “कलिङ्गः पूतिकरजे धूम्याटे भूम्नि नीवृति” ॥ अस्य प्रमाणं यथा, गोःरामायणे । ४ । ४० । २१ । “ततः शकपुलिन्दांश्च कलिङ्गांश्चैव मार्गतः” ॥ तद्देशवासिमानवादयः । यथा, महाभारते । ३ । ११४ । ३ । “ततः समुद्रतीरेण जगाम वसुधाधिपः । भ्रातृभिः सहितो वीरः कलिङ्गान् प्रति भारत” ॥) कुटजवृक्षः । (अस्यपर्य्यायो यथा भावप्रकाशे पूर्ब्बखण्डे १ भागे । “उक्तं कुटजवीजन्तु यवमिन्द्रयवन्तथा । कलिङ्गञ्चापिकालिङ्गं तथा भद्रयवा अपि” ॥ इन्द्रयवशब्देऽस्य गुणावली ज्ञेया ॥ व्यवहारो यत्र तद्यथा । “विल्वं छागपयः सिद्धं सितामोचरसान्वितम् । कलिङ्गचूर्णसंयुक्तं रक्तातीसारनाशनम्” ॥ इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे ॥) शिरीषवृक्षः । प्लक्षवृक्षः । इति राजनिर्घण्टः ॥
