कलितम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलितम्, त्रि, (कल् + कर्म्मणि क्त ।) विदितम् । आप्तम् । इति मेदिनी ॥ भेदितम् । गणितम् । इति शब्दरत्नावली ॥ धृतम् यथा, -- “करकलितकपालः कुण्डली दण्डपाणिः” । इति भैरबध्यानम् ॥ (प्राप्तः । यथा आर्य्यासप्तशती ३५५ । “विशिख इव कलितकर्णः प्रविशति हृदं न निःसरति” ॥ भावे + क्त । ज्ञानम् ॥)
