सामग्री पर जाएँ

कलियुगम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कलियुगम्, क्ली, (कलिरेव युगम् । अग्नेः शिखा राहोः शिर इति वत् कलेर्युगं वा ।) चतुर्थयगम् । (यथा मनुः १ । ८५ । “अन्ये कृतयुगे धर्म्मा स्त्रेतायां द्वापरे परे । अन्ये कलियुगे नॄणां युगह्रासानुरूपतः” ॥) तस्योत्पत्त्यादि यथा । माघीपूर्णिमायां शुक्रवारे कलियुगोत्पत्तिः । तत्र अवतारः कल्किः । पुण्य- मेकपादम् ॥ पापं त्रिपादम् । गङ्गा तीर्थम् । ब्राह्मणो निरग्निः । अन्नगताः प्राणाः । सार्द्ध- त्रिहस्तपरिमितो मनुष्यदेहः । अष्टाधिकशत- वर्षं परमायुः । भोजनपात्रस्य नियमो नास्ति । इति कलियुगस्य लक्षणम् ॥ कलियुगाब्दाः ४३२००० । आदौ कलिराजा धर्म्मपुत्त्रो युधि- ष्ठिरः । हरिश्चन्द्रः मुनिश्चन्द्रः तेजशेखरः विक्र- मादित्यः विक्रमसेनः लाउसेनः बल्लालसेनः देव- पालः भूपालः महीपालः । एते राजचक्रवर्त्तिनः ॥ तन्माहात्म्यं यथा, -- ‘धर्म्मः सङ्कुचितस्तपो विरहितं सत्यञ्च दूरंगतम् । लोकाधर्म्महता द्विजाश्चलुभिता नारीवशा मानवाः’ ॥ तत्र तारकब्रह्मनाम । “हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे । हरे राम हरे राम राम राम हरे हरे” ॥ इति केचित् ॥

"https://sa.wiktionary.org/w/index.php?title=कलियुगम्&oldid=125326" इत्यस्माद् प्रतिप्राप्तम्