सामग्री पर जाएँ

कलुषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कलुषः, पुं, स्त्री, (कस्य जलस्य लुषः हिंसकः । आ विलकारक इत्यर्थः । क + लुष् + क ।) महिषः । इति राजनिर्घण्टः ॥ (बद्धः । यथा शकुन्तलायां “कण्ठः स्तम्भितवाष्पवृत्तिकलुषः” ॥ निन्दितः । यथा मनुः १ । ५७ । “वर्णापेतमविज्ञातं नरं कलुषयोनिजम्” ॥)

कलुषः, त्रि, (कल् + उषच् ।) अनच्छः । आविलः । इत्यमरः । १ । १० । १४ ॥ (“निर्भुग्नकलुषे नेत्रे” इति सुश्रुते उत्तरतन्त्रे । ३१ अध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=कलुषः&oldid=125344" इत्यस्माद् प्रतिप्राप्तम्