कलेवरम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कलेवरम्, क्ली, (कले शुक्रे वरं श्रेष्ठं देहोत्पत्तिहेतु- कत्वात् पवित्रम् । समम्या अलुक् ।) शरीरम् । इत्यमरः । २ । ६ । ७० ॥ (यथा गीतायाम् । ८ । ६ । “यं यं भावं स्मरन् देही त्यजत्यन्ते कलेवरम् । तं तमुपैति कौन्तेय ! सदा तद्भावभावितः” ॥)
