सामग्री पर जाएँ

कल्कः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कल्कः, पुं, क्ली, (कल् गतौ + “कृ दाधारार्च्चि- कलिभ्यः कः” । उणां ३ । ४० । इति कः ।) घृततैलादिशेषः । (यथा याज्ञवल्क्यः । १ । २७७ । “स्नपनं तस्य कर्त्तव्यं पुण्येऽह्नि विधिपूर्ब्बकम् । गौरसर्षपकल्केन साज्येनोत्सादितस्य च” ॥) दम्भः । (यथा महाभारते १ । १ । २७१ । “तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्नकल्कः । प्रसह्यवित्ताहरणं न कल्कः तान्येव भावोपहतानि कल्कः” ॥) विभीतकवृक्षः । विष्ठा । किट्टम् । पापम् । इति मेदिनी ॥ (यथा भागवते २ । २ । २४ । “विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप ! शैशुमारम्” ॥ यस्य कस्यचित् वस्तुनो चूर्णम् । यथा कुमारे । ७ । ९ । “तां लोध्रकल्केन हृताङ्गतैला- माश्यानकालेयकृताङ्गरागाम्” ॥) कर्णमलः । इति शब्दरत्नावली ॥ तुरुष्कनाम- गन्धद्रव्यम् । इति राजनिर्घण्ठः ॥ घृततैलादि- पाके देयमौषधद्रव्यम् । तत्तु पञ्चकषायान्तर्गत- दृशदि पेषितम् । अस्य पूर्णवीर्य्यं याममेकं ति ष्ठति । यथा, -- “द्रव्यमात्रं शिलापिष्टं शुष्कं वा जलमिश्रितम् । तदेव सूरिभिः पूर्ब्बैः कल्क इत्यभिधीयते” ॥ तत्पर्य्यायः । पिष्टः २ विनीयः ३ । इति रत्नमाला ॥ आवापः ४ प्रक्षेपः ५ । इति वैद्यकपरिभाषा ॥ (“द्रव्यमार्द्रं शिलापिष्टं शुष्कं वा सजलं भवेत् । प्रक्षेपावापकल्कास्ते तन्मानं कर्षसम्मितम् ॥ इति मध्यखण्डे । ५ । १ । शार्ङ्गधरेणोक्तम् ॥ यस्तु क्षतेषूपयुज्यते सभूयः कल्क इति संज्ञा लभते निरुद्धालेपनसंज्ञस्तेनास्रावसंनिरोधो मृ- दुता पूतिमांसापकर्षणमन्तर्निद्दोषताव्रणशुद्धिश्च भवति” ॥ इति सुश्रुते सूत्रस्थाने । १८ अध्याये ॥) शाठ्यम् । इति मोक्षधर्म्मटीकायां नीलकण्ठः ॥

कल्कः, त्रि, (कलयति पापमाचरति । कल् + कः ।) पापाशयः । पापात्मा । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=कल्कः&oldid=125352" इत्यस्माद् प्रतिप्राप्तम्