कल्किः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कल्किः, पुं, (कल्कः पापं हार्य्यतया अस्ति अस्य । कल्क + इन् ।) विष्णोर्दशमावतारः । स तु कलिशेषे पापात्मनां विनाशाय सम्मलग्रामे हरेः कल्याणकृद्विष्णुयशाः शुद्धेन चेतसा ॥ सामर्ग्यजुर्व्विद्भिरग्र्यैस्तन्नामकरणे रतः । तदा रामः कृपो व्यासो द्रौणिर्भिक्षुः शरीरिणः ॥ समायाता हरिं द्रष्टुं बालकत्वमुपागतम् । तानागतान् समालोक्य चतुरः सूर्य्यसन्निभान् । हृष्टरोमा द्विजवरः पूजां चक्रे स ईश्वरान् ॥ पूजितास्ते स्वासनेषु संविष्टाः स्वसुखाश्रयाः । हरिं क्रोडगतं तस्य ददृशुः सत्त्वमूर्त्तयः ॥ तं बालकं नराकारं विष्णुं नत्वा मुनीश्वराः । कल्किं कल्कविनाशार्थमाविर्भूतं विदुर्ब्बुधाः । नामाकुर्व्वंस्ततस्तस्य कल्किरित्यभिविश्रुतम् ॥ कृत्वा संस्कारकर्म्माणि ययुस्ते हृष्टमानसाः । ततः स ववृधे तत्र सुमत्या परिपालितः ॥ कालेनाल्पेन कंसारिः शुक्लपक्षे यथा शशी । कल्केर्ज्ज्येष्ठास्त्रयः शूराः कविप्राज्ञसुमन्त्रकाः ॥ तातमातृप्रियकरा गुरुविप्रप्रतिष्ठिताः । कल्केरंशाः पुरो जाताः साधवो धर्म्मतत्पराः ॥ गार्ग्यभर्ग्यविशालाद्या ज्ञातयस्तदनुव्रताः । विशाखयूपभूपालपालितास्तापवर्ज्जिताः । ब्राह्मणाः कल्किमालोक्य परां प्रीतिमुपागताः ॥ ततो विष्णुयशाः पुत्रं धीरं सर्व्वगुणाकरम् । कल्किं कमलपत्राक्षं प्रोवाच पठनादृतम् । तात ते ब्रह्मसं स्कारं यज्ञसूत्रमनुत्तमम् । सावित्रीं वाचयिष्यामि ततो वेदान् पठिष्यसि ॥ इति श्रीकल्किपुराणेऽनुभागवते भविष्ये कल्कि- जन्मोपनयनम् २ अध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कल्किः [kalkiḥ], The tenth and last incarnation of Viṣṇu in his capacity of the destroyer of the wicked and liberator of the world from its enemies; (Jayadeva, while referring to the several axatāras of Viṣṇu, thus refers to the last or Kalki avatāra: म्लेच्छनिवहनिधने कलयसि करवालं धूमकेतुमिव किमपि करालम् । केशवधृतकल्किशरीरं जय जग- दीश हरे ॥ Gīt.1.1.) -पुराणम् N. of a Purāna.
