कल्प

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पः, पुं, (कल्प्यते विधीयते असौ । कृप् + कर्म्मणि घञ् ।) विधिः । (यथा मनुः ३ । १४७ । “एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः” ॥ (कल्पयति सृष्टिं नाशं वा अत्र । कृप् + णिच् + अधिकरणे अप् ।) प्रलयः । (“युगानां सप्ततिः सैकामन्वन्तरमिहोच्यते” । “कृताब्दसंख्यस्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः” ॥ “ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश । कृतप्रमाणकल्पादौ सन्धिः पञ्चदशस्मृतः” ॥ ते एकसप्ततियुगरूपा मनवः सायम्भुवाद्याः सस- न्धयः स्वस्वसन्धिसहिताः कल्पकाले ज्ञातव्याः । ससन्धियुक्तचतुर्द्दशसनुभिः कल्पो भवेदित्यर्थः । इति सूर्य्यसिद्धान्तोक्तकल्पपरिमाणम् ॥ आका- लिकनैमित्तिकदैनन्दिनमहाप्रलयानां विवृतिस्तु ततच्छब्दे द्रष्टव्यम् ॥ * ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्प पुं।

दैवम्_युगसहस्रद्वयम्

समानार्थक:कल्प

1।4।21।2।2

मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः। दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

कल्प पुं।

प्रलयः

समानार्थक:संवर्त,प्रलय,कल्प,क्षय,कल्पान्त

1।4।22।2।3

मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः। संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, कालः

कल्प पुं।

विधानशास्त्रम्

समानार्थक:कल्प,विधि,क्रम

2।7।39।2।2

पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः। ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ॥

अवयव : आद्यविधिः,गौणविधिः,वेदपाठारम्भविधिः

 : आद्यविधिः, गौणविधिः, वेदपाठारम्भविधिः

पदार्थ-विभागः : , पौरुषेयः

कल्प पुं।

नीतिः

समानार्थक:अभ्रेष,न्याय,कल्प,देशरूप,समञ्जस,नय,नाय,धर्म

2।8।24।1।3

अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम्. युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्प¦ पु॰ कल्पते समर्थो भवति स्वक्रियायै विरुद्धलक्षणया असमर्थो-भवति वाऽत्र, कृपू सामर्थ्ये विरुद्धलक्षणया असामर्थ्ये वाआधारे घञ् कल्पयति सृष्टिं विनाशं वात्र कृप-{??}णिच्-आधारे अच्। ब्रह्मणो रात्रिरूपे जगतां चेष्टाराहित्य-सम्पादके

१ प्रलये

२ तस्य दिनरूपे जगतां चेष्टासम्पादके चकालभेदे।
“यदा स देवो जागर्त्ति तदेदं चेष्टते जगत्। यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति” मनुनाजगच्चेष्टातद्राहित्ययोर्ब्रह्माहोरात्रयोरुक्तेस्तथात्वम्। ( कलिशब्दे दर्शितवाक्येन युगमानमुक्त्वा कल्पमानंप्रदर्श्य ब्रह्मणः आयुःपरिमाणं तस्य गतायुःकालश्चसू॰ सि॰ उक्तो यथा-
“युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते। कृताव्दस-ङ्ख्यस्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः” सू॰।
“युगानां सैकासप्ततिरेकसप्ततिर्महायुगमित्यर्थः। इह--मूर्त्तकाले। मन्व-न्तरं मन्वारम्भतत्समाप्तिकालयोरन्तरकालमानमित्यर्थः। मूर्त्तकालमानभेदाभिज्ञैः कथ्यते। तस्य मनोरन्ते विरामेजाते सति कृताव्दसङ्ख्यः मदुक्तकृतयुगवर्षमितः सन्धिःकालविद्भिः प्रकर्षेण द्वितीयमन्वारम्भपर्य्यन्तं भूतमावि-मन्वोरन्तिमादिसन्धिरूपैककालेन कथितः। तत्स्वरूपमाह
“जलप्लव इति। जलपूर्ण्णा सकला पृथ्वी तस्मिन्लोकसंहारकाले भवति। अथ कल्पप्रमाणं सविशेषमाह” रङ्ग॰।
“ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश। कृत-प्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः” सू॰।
“ते एक-सप्ततियुगरूपा मनवः स्वायम्भुवाद्याः ससन्धयः स्वस्व-सन्धिसहिताश्चतुर्द्दशसङ्ख्याकाः कल्पकाले ज्ञातव्याः। [Page1815-b+ 38] स्वसन्धियुक्तचतुर्द्दशमनुभिः कल्पः स्यादित्यर्थः। ननुग्रन्थान्तरे कल्पमानं युगसहस्रं त्वया तु युगमानमेक-सप्ततिगुणं मनुमानं

३०

६७

२०

००

० कृतावद्

१७

२८

००

० युक्तं ससन्धिमनुमानं

३०

८४

४८

००

० इदं चतुर्द्दशगुणं

४३

१८

७२

००

० कल्पप्रमाणं तच्च कृतीनं युगसहस्त्रमित्यतआह। कृतप्रमाण इति। कल्पादौ प्रथममन्वारम्भे कृतयुग-वर्षमितो मनोश्चतुर्दशत्वेऽप्याद्यः पञ्चदशकः सन्धिः कालज्ञै-रुक्तः। तथा च कृतवर्षानन्तरं प्रथममन्वारम्भ इति तद्वर्षं-योजनेनाविरोध इति भावः। अथ ब्रह्मणो दिनरात्र्योःप्रमाणमाह” रङ्ग॰।
“इत्थं युगसहस्नेण भूतसंहारकारकः। कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती” सू॰
“इत्थंपूर्व्वोक्तप्रकारसिद्धेन युगसहस्रेण भूतसंहारकारकोलयात्मकः कल्पकाली ब्राह्मं ब्रह्मणः सम्बन्ध्यहःदिनं कालज्ञैरुक्तम्। तस्य ब्रह्मणस्तावती दिनपरिमिताशर्व्वरी रात्रिः। कल्पद्वयं तदहोरात्रमिति फलितार्थः। अथ ब्रह्मणआयुःप्रमाणमतीतवयःप्रमाणं चाह” रङ्ग॰।
“परमायुः शतं बस्य तयाहोरात्रसङ्ख्यया। आयुषो॰ऽर्द्धमितं तस्य शेषकल्पोऽयमादिमः” सू॰। परमपरं शृणुपूर्व्वोक्तं त्वया श्रुतमपरं च वक्ष्यमाणं शृणु त्वम्। यद्वापरमेति दैत्यवरार्थकं सम्बोधनम्। त्वं तस्य ब्रह्मणस्तथापूर्ब्बोक्तयाहोरात्रमित्या कल्पद्वयरूपया शतं शतवर्ष-परिमितमायुः शरीरघारणकालं जानीहि। एतदुक्तंभवति। अहोरात्रमानात् पूर्ब्बपरिभाषया (

३० ) मास-मानं तस्मात् पूर्व्वोक्तपरिभाषया (

१२ ) ब्रह्मणो वर्षमानमेत-च्छतसङ्ख्यया ब्रह्मायुरिति। न तु यथाश्रुतार्थेन कल्पशत-द्वयमायुः, कोटादीनामपि दिनसङ्ख्ययायुषोऽनुक्तेः सुतरांब्रह्मणः शतदिनात्मकायुषोऽसम्भवात्
“निजेनैव तु मानेनआयुर्वर्षशतं स्मृतम्” इति विष्णुपुराणोक्तेश्च। एतेनपरमा--रित्येकं पदमिति निरस्तम् ब्रह्मणोऽनियतायुर्दाया-सम्भवात्। तस्य ब्रह्मण आयु शतवर्षरूपमस्यार्द्धं पञ्चाशद्वर्षपरिमितमितं गतम्। अयं वर्त्तमान आदिमःप्रथमः शेषकल्पः शेषायुर्दायस्य ब्रह्मदिवस उत्तरार्द्धस्यप्रथमदिवसो वर्त्तमान इति फलितार्थः। अथ वर्त्तमानेऽ-स्मिन् दिवसेऽप्येतद्गतमित्याह रङ्ग॰।
“कल्पादस्माच्चमनवः षड् व्यतीताः ससन्धयः। वैवस्वतस्य च मनो-र्युगानां त्रिघनो गतः” सू॰।
“अस्माद्वर्तमानात् कल्पाद्ब्रह्मदिवसात् षट्सङ्ख्याका मनय एकसप्ततियुगरूपाःससन्धयः सप्तभिः सन्धिभिः कृतयुगप्रमाणैः सहिता[Page1816-a+ 38] व्यतीता गताः। चकारआयुषोऽर्द्धमितमिति प्रागुक्तेनसमुच्चयार्थकः। वर्त्तमानस्य सप्तमस्य मनोर्वैवस्वताख्यस्ययुगानां त्रिघनस्त्रयाणां घनः स्थानत्रयस्थिततुल्यानांघातः सप्तविं शतिसङ्ख्यात्मको गतः। सप्तविंशतियुगानिगतानीत्यर्थः। चः समुच्चये। अथ वर्त्तमानयुगस्यापिगतमेतदिति वदन्नभिमतकालेऽग्रतो वर्षगणः कार्य्य इत्याह” रङ्ग॰।
“अष्टाविंशाद् युगादस्माद्यातमेतत् कृतं युगम्। अतः कालं प्रसङ्ख्याय सङ्ख्यामेकत्र पिण्डयेत्” सू॰।
“अष्टाविं शतितमाद्वर्तमानान्महायुगादेतदल्पकालेन पूर्व्व-काले सा{??}प्रतं स्थितं कृतं युगं गतम्। अतः कृतयुगान्तानन्तरमभिमतकाले कालं वर्षात्मकं प्रसङ्ख्याय गणयित्वासङ्ख्यां पञ्चस्थानस्थितां भिन्नामेकत्रैकस्थाने पिण्डयेत्सङ्कलनविषयां कुर्य्यात्। सर्वेषां गतानां योगं कुर्य्या-दित्यर्थः” रङ्ग॰!( मासस्य त्रिंशत्तिथ्यात्मकतया ब्रह्मसासस्य त्रिंश-त्कल्पघटितत्वात् तेषां कल्पानां नामानि हेमा॰ दा॰मात्स्ये आह स्म(
“कल्पानुकीर्त्तनं वक्ष्य सर्व्वपापप्रणाशनम्। यस्यानु-कीर्त्तनादेव वेदपुण्येन युज्यते। प्रथमः श्वेतकल्पस्तुद्वितीयो नीललोहितः। वामदेवस्तृतीयस्तु ततो रषन्तरो-ऽपरः। रौरवः पञ्चमः प्रोक्तः षष्ठः प्राण इति स्मृतः। सप्तमोऽथ वृहत्कल्पः कन्दर्पोऽष्टम उच्यते। सद्योऽथ नवमःप्रोक्त ईशानो दशमः स्मृतः। व्यान एकादशः प्रोक्तःतथा सारस्वतोऽपरः। त्रयोदश उदानस्तु गारुडोऽथचतुर्दशः। कौर्म्मः पञ्चदशोज्ञेयः पौर्णमासी प्रजापतेः। षोडशोनारसिंहस्तु समानस्तु ततः परः। आग्नेयोऽ-ष्टादशः प्रोक्तः सोमकल्पस्तथाऽपरः। मानवो विंशतिःप्रोक्तस्तत् पुमानिति चापरः। वैकुण्ठश्चापरस्तद्वल्लक्ष्मीकल्प-स्तथा परः। चतुर्विंशस्तथा प्रोक्तः सावित्रीकल्पसंज्ञकः। पञ्चविंशतिमो घोरो वाराहस्तु ततोऽपरः। सप्तविंशोऽथवैराजो गौरीकल्पस्तथाऽपरः। माहेश्वरस्ततः प्रोक्तोत्रिपुरो यत्र घातितः। पितृकल्पस्तथान्ते तु या कुहू-ब्रह्मणः स्मृता। इत्ययं ब्रह्मणोमासः सर्वपापप्रणा-शनः। आदावेव हि माहात्म्यं यस्मिन् यस्य विधी-यते। तस्य कल्पस्य तन्नाम विहितं ब्रह्मणा पारा”। तदारम्भकालश्च ब्रह्मसिद्धान्ते उक्तः
“चैत्रसितादेर्भानो-र्वर्षर्ष्ठुमासयुगकल्पाः। सृष्ट्यादौ लङ्कायामिह प्रवृत्ताःदिनैर्वत्स!” चैत्रसितादेः चैत्रशुक्लप्रतिपदमारभ्येत्यर्थः। [Page1816-b+ 38] ब्रह्मपु॰
“चैत्रे मासि जगत् ब्रह्मा ससर्ज प्रथमे-ऽहनि। शुक्लपक्षे समग्रन्तु तदा सूर्य्योदये सति। प्रव-र्त्तयामास तदा कालस्य गणनामपि” इति कालसामान्य-गणनस्य तत आरभ्योक्तेः” एवं चैत्रशुक्लप्रतिपदि कल्पप्रार-म्भेऽपि
“माघशुक्लतृतीयायां कृष्णायां फाल्युनस्य च।{??}ञ्चमी चैत्रमासस्य यथैवाद्या तथा परा। शुक्ला त्रयो-दशी माघे कार्त्तिकस्य तु सप्तमी। नवमी मार्गशीर्षस्यसप्तैताः संस्मराम्यहम्। कल्पानामादयो ह्येता दत्त-स्याक्षयकारकाः” वाराहवाक्यानि यदि समूलानितदा कल्पभेदादविरुद्धानि कल्पादित्वेन तत्तत्तिथिषु श्राद्धकर्त्तव्यतोपयोगिपारिभाषिकत्वपरतया वा समर्थनीयानि। अतएव सू॰ सि॰ सुरासुराणामन्योन्यमहोरात्रविप-र्य्ययात्। यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात्। मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् न तत्र। द्युनिशोर्भेदो ब्राह्मं कल्पः प्रकीर्त्तितः, इत्यादिना युगमन्वन्तर-कल्पानां सौरत्वेनोक्तिः। सौरमाने च नियतयुगादि-कालेषु अनियततिथिसम्भवेऽषि सर्वेषां कल्पानामादौचैत्रसितादितिथिरेव नियता पायुक्तवचनप्रामाण्यात्। किन्तु प्रागुक्तमात्स्ये ब्राह्मकल्पानां चान्द्रत्वोक्तेः चान्द्र-त्वमपि तेन तिथिभेदसम्भवः सू॰ सि॰ वाक्यं तु ग्रह-स्पष्टीकरणोपयोगीत्यविरोधः। अत्र तिथिद्वैधे युगादिवत् व्यवस्था। कृप--णिच्--भाबे अच्।

२ रचने

३ विकल्पे च इतिकर्त्तव्यतायुक्ते

४ विधाने च।
“प्रभुःप्रथमकल्पस्य योऽनुकल्पे प्रवर्त्तते” मनुः। कल्पो-विधानमस्त्यत्र औचित्येन।

५ उचिते त्रि॰ शाश्वतः। कल्प्यतेऽनुष्ठीयतेऽनेन करणे अच्।

६ वैदिकविधानज्ञापकेशास्त्रभेदे स चाश्वलायनापस्तम्बबौधायनकात्यायनादि-सूत्रात्मकः। तस्य यथोपयोगिता तथोक्तं सायणा-चार्य्येण ऋग्वेदभाष्योपोद्घाते यथा-(
“कल्पस्त्वाश्वलायनापस्तम्बवौधायनादिसूत्रं, कल्प्यतेसमर्थ्यते याबप्रयोगोऽनेनेति व्युत्पत्तेः। नन्वाश्वलायनःकिंमन्त्रकाण्डमनुसृत्य प्रवृत्तः? किं वा ब्राह्मणमनुसृत्य?नाद्यः
“दशपूर्णमासौ तु पूर्वं व्याख्यास्याम” इत्येवं तेनोप-क्रान्तत्वात् न ह्यग्निमीड इत्यादयोमन्त्रा दशपूर्ण्णमासयोःकचिद्विनियुक्ताः। न द्वितीयः
“आग्नावैष्णवमेकादशकपालंपुरोडाशं निर्वपन्ति दीक्षणीयायाम्” इत्येवं दीक्षणीयेष्टे-र्बाह्मणे प्रक्रान्तत्वात्। अत्रोच्यते--मन्त्रकाण्डोब्रह्म-यज्ञादिजपक्रमेण प्रवृत्तो न तु यागानुष्ठानक्रमेण[Page1817-a+ 38] ब्रह्मयज्ञश्चैवं विहितः
“यत् स्वाध्यायमधीयीतैकामप्यृचंयजुः साम वा तद्ब्रह्मयज्ञम्” इति सोऽयं ब्रह्मयज्ञजपीऽग्निमीडे इत्याम्नायक्रमेणैवानुष्ठेयः तथा
“सर्वा ऋचःसर्वाणि यजूंषि सर्वाणि सामानि वाचः स्तोमे पारि-प्लवं शंसतीति” विवीयते तथा
“आश्विने शस्यमाने सूर्योनोदियादपि सर्वा दाशतयीरनुब्रूयादिति” विधीयते तथा
“रिच्यत इव वा एष प्रेव रिच्यते यो याजयति यो वाप्रतिगृह्णाति याजयित्वा प्रतिगृह्य वाऽनश्नन् त्रिःस्वाध्यायंवेदमधीयीतेति” प्रायश्चित्तरूपं वेदपारायणं विहितम्इत्यादिषु कृत्स्नमन्त्रका ड्विनियोगेषु संप्रदायपारम्-पर्यागत एव क्रम आदरणीयः। विशेषविनियोगस्तुमन्त्रविशेषाणां श्रुतिलिङ्गवाक्यादिप्रमाणान्युपजीव्या-श्वलायनोदर्शयति अतोमन्त्रकाण्डक्रमाभावेऽपि न कश्चि-द्विरोधः। इषे त्वेत्यादिमन्त्रास्तु क्रत्वनुष्ठानक्रमेणैवाम्नाताइत्यापस्तम्बादयस्तेनैव क्रमेण सूत्रनिर्माणे प्रवृत्ताः। आम्नातत्वादेव जपादिष्वपि स एव क्रमः। यद्यपि ब्राह्मणेदीक्षणीयेष्टिरुपक्रान्ता तथापि तस्या इष्टेर्दर्शपूर्णमास-विकृतित्वेन तदपेक्षत्वादाश्वलायनस्यादौ तद्व्याख्यानं युक्तम्अतः कल्पसूत्रं मन्त्रविनियोगेन क्रत्वनुष्ठानमुपदिश्यो-पकरोति तर्हि
“प्र वो वाजा” इत्यादीनां सामिधेनीनामृ-चामेव विनियोगमाश्वलायनोब्रवीतु
“नमः प्रवक्त्र” इत्यादयस्त्वनाम्नाताः कुतो विनियुज्यन्ते? इति चेत् नायं दोषःशास्वान्तरसमाम्नातानां ब्राह्मणान्तरसिद्धस्य विनियोगस्यगुणोपसंहारन्यायेनात्र वक्तव्यत्वात् सर्व्वशाखां प्रत्ययमेकंकर्मेति न्यायविदः, तस्माच्छिक्षेव कल्पोऽप्यपेक्षितः”। कात्या॰ व्या॰ कर्केण कल्पशास्त्रप्रयोजनमित्थं दर्शितं यथा--
“इह पुण्यो वै पुण्येन कर्म्मणा भवति”
“तमेतंवेदानुवचनेन विविदिषन्ति ब्रह्मचर्य्येण तपसा श्रद्धयायज्ञेनेति”
“अग्निहोत्रं जुहुयात् स्वर्गकाम” इत्यादिमि-र्वाक्यैः कर्म्मणां स्वर्गापवर्गादिश्रेयःसाधनत्वं प्रतीयते। तानि चाग्निहोत्रादिकर्म्माणि वेदवाक्यैकवेद्यानि। वेद-वाक्यानि चानेकशास्वावस्थिततया स्वतश्च प्रतिवाक्यंनानाविधपरस्परविरुद्धार्थस्फुरणेन दुर्बोधार्थानि बहु-भिरर्थवादवाक्यैर्मिश्रितानि च तथाहि
“अग्निहोत्रंजुहुयात् स्वर्गकामः” इत्यत्र किं स्वर्गो होमाय, उत होमःस्वर्गाय, तथा अग्निहोत्रशब्दोगुणविधानार्थो नामधेयंयेति तथा
“स वै संवत्सरं दीक्षाभिरेति” इत्याद्रौ क्वचित्संवत्सरशब्दस्य मुख्यार्थत्वम् सहस्रसंवत्सरादौ तस्यैव[Page1817-b+ 38] गौणत्वम्। अर्थवादादिभिश्च पाठात् विध्यर्थवादसंदेहोऽपिभवति किमयं विधिः? उतार्थवादः? इति यद्य पि जैमिनिशवरस्वामिकुभट्टमारिलप्रभृतिभिर्मीमांसायां तानि वाक्यानिसंदेहनिरासपूर्व्वकं यथार्थं व्याख्यातानि सन्ति। अधीतशास्त्राणां च तदार्थावगमोऽपि सुकर एव, तथापि तेषांनानाशाखाव्यवस्थितत्वेनेदानीन्तनैः सर्वैः पुरुषैरध्येतुंज्ञातुं वाऽशक्यत्वात्तदधीनं कर्म्मणां ज्ञानं दुःशक्यमि-दानीन्तनानामिति मत्वा परमकारुणिको भगवान् कात्या-यनाचार्य्यो नानाशाखागतविधिवाक्यसंग्रहरूपं कल्पसूत्रंप्रणीतवान्”। तत्र प्रतिपाद्यविषयाः कात्यायनशब्दे वक्ष्यन्ते( आर्षेयकल्पसूत्रविषयाश्च
“अथार्षेयकल्पो व्याख्या-तव्यः” इत्युपक्रम्य सर्वक्रतुप्रकृतिभूतस्य त्रिपर्वणोज्योति-ष्टोमस्य सर्वाहर्गणप्रकृतिभूतस्य व्यूढस्य द्वादशाहस्यच ब्राह्मणवाक्येनैव प्रयोगो दर्शितस्तदुपजीवनेनक्रत्वन्तराणि प्रयोक्तव्यानीति दर्शयितुमादौ ऋत्वि-ग्वरणादिकमभिधाय

१ प्र॰
“कॢप्तो ज्योतिष्टोमोऽति-रात्रः षोडशिकः” इत्यादिना सौभरमुद्वं शीयमित्यन्तेनसामविशेषयुक्तस्य प्रायणीयस्य प्रयोगो दर्शितः। ततः
“उपा-स्मै गायता नरः” इत्यादिना अभिप्लवस्य प्रथमाहस्य।
“पवस्व वाचः” इत्यादिना द्वितीयाहस्य।
“दविद्युतत्यारुचा” इत्यादिना तृतोयाहस्य।
“पवमानोअजीजनत्” इत्यादिना चतुर्थाहस्य।
“पवमानस्य विश्ववित्” इत्यादिनापञ्चमाहस्य।
“असृत प्रवाजिनः” इत्यादिना षष्ठाहस्य।
“पृष्ट्यः षडहः ससूढो वा व्यूढो वा” इत्यारिवा पृष्ट्य-षडहस्य त्यहाणां प्रयोगः। एवम् चतुर्थस्याह्न इत्या-दिला उत्तरत्र्यहकल्पः।

२ ग्र॰
“पवस्य वाचो अग्रियः” इत्यादिना अभिजितोऽह्नः कल्पः।
“उपास्मै गायतानरः” इत्यादिना स्वरसाम्नां प्रथमस्य।
“पवस्व वाचोऽग्रियः” इत्यादिना तेषां द्वितीयस्य
“दविद्युतत्यारुचा” इत्यादिना तृतीयस्य।
“उपास्मै गायता नरः” इत्यादिनविषुवायनानामावृत्तानां स्वरसाम्नाम् कल्पः।
“उप त्वजामयः” इत्यादिना विश्वजितः।
“पौरमीढं मानवंजनित्रम्” इत्यादिना आवृत्तयोः पृष्ट्याभिप्लवयोः,। ज्योतिष्टोममाज्येत्यादिना आयुष्टोमस्य।
“पवस्व वाचोऽ-ग्रियः” इत्यादिना गोष्टोमस्य।
“उपास्मै गायता नरः” इत्यादिना महाव्रतस्य।

३ प्र॰
“कॢप्तो ज्योतिष्टोमः” इत्यादिना गोः, आयुषः, अभिजितः विश्वजितश्चमहाव्रतस्य।
“पवस्व वाचोऽग्रियः” इत्यादिंना प्रथम[Page1818-a+ 38] साहस्रस्य।
“एषैवोत्तरस्य कॢप्तिः” इत्यादिना द्वितीय-तृतीययोः।
“उपास्मै गायता नरः” इति चतुर्थस्य।
“उपास्मै गायता नरः” इत्यादिना प्रथमसाद्यस्क्रम्य।
“एषैवोत्तरस्य कॢप्तिः” इत्यादिना साद्यस्क्रत्रिकस्य।
“पव-मानस्य जिन्वते” इत्यादिना श्येनरूपसाद्यस्क्रस्य।
“उपास्मैगायता नरः” इत्यादिना एकत्रिकसाद्यस्क्रस्य। ज्योतिष्टोमंबहिष्पव मानमित्यादिना प्रथमव्रात्यस्तोमस्य।
“एतेअसृग्रमिन्दव” इत्यादिना द्वितीयतृतीयव्रात्यस्तोमयोः।
“अग्रियवती प्रतिपत्” इदित्यादिना चतुर्थव्रात्यस्तोमस्य।
“अग्न! आयूंषि पवस” इत्यादिना प्रथमस्याग्निष्टुतः।
“एषैवोत्तरस्य कॢप्तिः” इत्यादिना द्वितीयतृतीयचतुर्था-नामग्निष्टुताम् प्रजापतेरपूर्व्वस्य वृहस्पतिसवस्य, इषुनामकयज्ञस्य च।
“प्र सोमासो अधन्दिषुः” इत्यादिनासर्व्वस्वारस्य।

४ प्र॰।
“अग्न! आयूंषि पवसे” इत्यादिना वैश्वदेव-वारुणप्रघसिकैकाहस्य।
“कया त्वं न ऊत्या पवस्व” इत्यादिना वारुणप्रघासिकद्वितीयाहस्य।
“उप त्वाजामयोगिरः” इत्यादिना शाकमेधप्रथमाहस्य।
“इन्द्रा-येन्दो! मरुत्वते” इत्यादिना तदीयद्वितीयाहस्य।
“विश्व-कर्मन् हविषा” इत्यादिना तदीयतृतीयाहस्य शुनासीर्यस्यच।
“पवस्वेन्दो! वृषासुतः” इत्यादिना उपहवस्य।
“द्वितीयस्य स्वरसाम्न” इत्यादिना ऋतपेयदूणासवैश्य-स्तोमतीव्रसुद्वाजपेयेषु प्रत्यवरोहणीयाभ्यारोहणीययोःकल्पः।
“वायोः शुक्रो अयामि त” इत्यादिना अभिषेच-नीयस्य।
“राजा मेधाभिरीयते” इत्यादिना दशपेयस्य।
“केशवपनाय व्युष्टिर्द्विरात्र” इत्यादिना तदीयद्वितीया-हस्य। इत्थं क्षत्रस्य धृतेश्च। एवमुक्तरूपेण सप्तसुत्यस्यवाजपेयस्य च। (

५ प्र॰
“राजा मेधाभिरीयते” इत्यादिना राड्विराडो-रुपसदाम्।
“रौरवयौधाजये” इत्यादिना पुनस्तोमस्यचतुष्टोमस्य च।
“उपोषु जात” इत्यादिना उद्भि-द्बलमिदोरपचितेश्च।
“साहस्रं वहिष्पवमानम्” इत्यादिनासर्व्वस्तोमोपचितेरग्नेः स्तोमयोश्च।
“पुनानः सोम-धारया” इत्यादिना ऋषभगोषवमरुत्स्तोमानामिन्द्राग्न्योःकुलायाश्च।
“इन्द्रायोन्दो! मरुत्वत” इत्यादिना इन्द्र-स्तोमस्य।
“पवस्व वाचो अग्निय” इत्यादिना इन्द्रा-ग्न्योःस्तोमस्य आद्यविघनस्य च।
“पवस्व वाचो अग्रियः” इत्यादिना द्वि तीयविघनस्य।
“श्येनमाज्यबहिष्पवमा-[Page1818-b+ 38] नम् इत्यादिना एकाहसाध्यानां कल्पः। एते एकाह-साध्या इतुक्तिश्च। (

६ प्र॰।
“कॢप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिक” इत्या-दिना ज्योतिष्टोमातिरात्रस्य, आहीनिक्या रात्रे, सर्वस्तो-माप्तोर्यामस्य, नवसप्तदशस्य, विषुवतः गोआयुषः विश्व-जिदभिजितोः एकस्तोमानाञ्च प्रथमाहस्य कल्पः।
“गोराज्यबहिष्पवमानम्” इत्यादिना, उक्तानां ज्योति-ष्टोमातिरात्रादीनां द्वितीयतृतीयचतुर्थाहानाम् एकस्तो-मानामाङ्गिरसचैत्ररथकापिवनरूपाणां द्विरात्राणां चकल्पः।
“अभिप्लवस्य प्रथमस्याह्नः” इत्यादिना गर्गत्रि-रात्रे प्रथमाहस्य।
“उपोषु जातम्” इत्यादिना तत्रद्वितीयाहस्य।
“पवस्व वाचः” इत्यादिना तत्र तृतीयाहस्यकल्पः।
“पवस्व वाज सातये” इत्यादिना अश्वमेधत्रिरा-त्रस्य।
“प्रसोमासो विपश्चित” इत्यादिना वैदत्रिरात्रस्य।
“सांवत्सरिकस्य विषुवतः” इत्यादिना, छन्दोमपवमान-त्रिरात्रस्य। ये गर्गत्रिरात्रस्येत्यादिना अन्तर्वसुपराक-त्रिरात्रयोः कल्पः।

७ प्र॰।
“उपास्मै गायता नरः” इत्यादिना चतुरहप्रथमाहस्य।
“पवस्व वाचो अग्रियः” इत्यादिना तदी-यद्वितीयाहस्य।
“दविद्युतत्यारुचा” इत्यादिना तृती-याहस्य।
“पवमानो अजीजनत्” इत्यादिना चतुर्था-हस्य।
“उपोषु जातम्” इत्यादिना जामदग्न्यचतुरहस्य।
“या जामदग्न्यस्य” इत्यादिना वाशिष्ठचतुरहस्य। प्रसोमासोविपश्चितः” इत्यादिना जाह्नवचतुरहस्य।
“वैश्वामित्रोद्व्यहः” इत्यादिना देवपञ्चरात्रस्य त्रया-णामह्नाम्।
“पवमानो अजीजनत्” इत्यादिना तदीय-चतुर्थाहस्य।
“पवमानस्य विश्ववित्” इत्यादिना पञ्च-माहस्य कल्पः।
“एष चतुरहोयीदेवानाम्” इत्यादिनापञ्चशारदीयव्रतमध्वोः।
“पृष्ट्यः षडहः समूढो व्यूढो वा” इत्यादिना ऋतुषडहायुष्कामपृष्ठ्यालम्बनानां षड-हानाम्।
“एष एव षडहो य क्रतूनाम्” इत्यादिनासप्तर्षीणां प्रजापतेः छन्दोगानां जमदग्नेरिन्द्रस्य चपञ्चसप्तरात्राणाम्।
“या देवानां पञ्चरात्रस्य” इत्यादिनाजनकसप्तरात्रस्य।
“एष एव षडहोयः क्रतूनाम्” इत्यादिनापृष्ठ्यस्तोमस्य सप्तरात्रस्य अष्टरात्रनवरात्रयोश्च कल्पः। (

८ प्र॰।
“अग्न आयूंषि पवस” इत्यादिना त्रिक-कुब्दशरात्रस्य द्वयीरह्नोः।
“दविद्युतत्यारुचा” इत्या-दिना तदीयतृतीयाहस्य।
“पवमानो अजीजनत्” इत्या-[Page1819-a+ 38] दिना चतुर्थाहस्य।
“पवमानस्य विश्ववित्” इत्यादिना पञ्च-माहस्य।
“असृक्षत प्रवाजिनम्” इत्यादिना षाष्ठाहस्य।
“ये सोमासः परावति” इत्यादिना मप्तमाहस्य।
“पवमानाअसृक्षत” इत्यादिना अष्टमाहस्य।
“उपोषु जातम्” इत्या-दिना नवमाहस्य विश्वजिदतिरात्रस्य च कल्पः।
“या वृह-स्पतिसवस्य सा कुसुरुविन्दस्य” इत्यादिना कुसुरुविन्दुदश-रात्रस्य।
“पृष्ठ्यालम्बस्य पञ्चाहः” इत्यादिना छन्दोमदश-रात्रस्य।
“त्रिष्टोमोऽग्निष्टोमोयत्” इत्यादिना देवपूर्दश-रात्रस्य पुण्डरीकैकादशरात्रस्य च कल्पः। इत्येतेअहर्गणसाध्यत्वात् अहीना इत्युच्यन्तं इत्युक्तिश्च। (

९ प्र॰।
“द्वादशरात्रस्य षोडशिमन्तावतिरात्रौ” इत्यादिनात्रयीदशरात्रयोर्द्वयोः, तृतीयषड्विंशतिरात्रस्य, चतुर्दश-रात्राणां त्रयाणां, पञ्चदशरात्राणां चतुर्ण्णाम्, षोडशरात्र-स्यैकस्य च कल्पः। एते सत्रसंज्ञा इत्युक्तिश्च।
“सप्तदशरात्रेचत्वार्य्याभिप्लवकान्यहानि” इत्यादिना सप्तदशरात्रस्य,अष्टादशरात्रस्य, एकोनविंशरात्रस्य च।
“विंशतिरात्रे सां-वत्सरिकौ विश्वजिदभिजितौ” इत्यादिना विंशतिरात्रस्य। एकविंशतिरात्रयोर्द्वयोः, त्रयोविंशतिरात्रस्य, चतु-र्विंशतिरात्रसम्बन्धिपृष्ठ्यातिरात्रयोश्च कल्पः।
“पवस्वेन्दो!वृषा सुतः” इत्यादिना त्रयोविंशतिरात्रस्य।
“उपास्मैगायता नर” इत्यादिना तदीयप्रथमविशालस्य।
“एषउस्यवृषा रथम्” इत्यादिना तदीयद्वितीयप्रभृतिविशालस्य,चतुर्विंशतिरात्रस्य च कल्पः। तत्रैकैकोत्तरवृद्धाअष्टौ इत्यु-क्तिश्च।
“नानाब्रह्मसाम्नामतिरात्रः” इत्यादिना नानाब्रह्म-सामादीनां त्रयाणां त्रयस्त्रिंशद्रात्राणाञ्च तत्र चएकोत्तरवृद्धानि सप्तेत्युक्तिश्च।
“विधृतीनां ज्योतिष्टो-मोऽतिरात्रोऽषोडशिकः” इत्यादिना विधृतीनाम्।
“पृष्ठ्यःषडहः समूढोवा” इत्यादिना, च विधृतीनाम्।
“यमाति-रात्रासु गीष्टोमस्य” इत्यादिना यमातिरात्रप्रभृतीनांषण्णाम्, एकपञ्चाशद्रात्रस्य, एकषष्टिरात्रस्य, शतरात्रस्यसांवत्सरिकस्य गवामयनस्य च कल्पः।

१० प्र॰
“मध्ये पृष्ठ्यस्य कॢप्तोऽतिरात्रः” इत्यादिना मध्येपृष्ट्यस्य, कॢप्तानां व्यूहाग्निष्टोमेभ्य आद्वितीयादह्नः कल्पः।
“द्वितीयस्याह्न” इत्यादिना तत्रैव द्वितीयाहादि पञ्चानाम-{??}सृ।
“सप्तमस्याह्नः” इत्यादिना सप्तमप्रभृतीनां त्रयाणा-नह्नाम्।
“दशमस्याह्नः पञ्चानाम्” इत्यादिना दशमाह-प्रभृतिकॢप्तस्य च्छन्दोमदशाहस्य अर्हगणस्य।
“अस्य प्रत्नासनुद्यतम्” इत्यादिना छन्दोमदशाहप्रथमाहस्य।
“पवस्व[Page1819-b+ 38] वाचो अग्रियः” इत्यादिना छन्दोमद्वितीयाहस्य।
“दविद्युतत्यारुचा” इत्यादिना छन्दोमतृतीयाहस्य।
“पवमानो अजीजनत्” इत्यादिना छन्दोमचतुर्थाहस्य। उतशुग्रासः” इत्यादिना तदीयपञ्चमषष्ठयोरह्नोः।
“येसोमासः परावति” इत्यादिना तत्र सप्तमाहस्य।
“हिन्वन्ति सूरमुस्रयः” इत्यादिना तत्र अष्टमाहस्य।
“उपोषु जातम्” इत्यादिना नवमदशमयोरह्नोः कल्पः।

११ प्र॰
“पुरस्तात् पृष्ठ्यस्य कॢप्तोऽतिरात्रः” इत्यादिना पुरस्तात् पृष्ट्यस्य, त्रिरात्राभिप्लवस्य, गोः, आयुषश्च कल्पः।
“अस्यप्रत्माममुद्युतम्” इत्यादिना द्वितीये छन्दोमे प्रथमाहस्य।
“पवस्व वाचो अग्नियः” इत्यादिना तत्र द्वितीयाहस्य।
“दविद्युतत्यारुचा” इत्यादिना तत्र तृतीयाहस्य।
“बभ्रवेनु स्वतवसे” इत्यादिना तत्र चतुर्थपञ्चमयोः षष्ठस्य च।
“ये सोमासः परावति” इत्यादिना सप्तमादिदशमान्तानां,महाव्रतस्यातिरात्रस्य च कल्पः।
“विधृतिभिः कॢप्तम्” इत्यादिना दृतिकुण्डपायिनामयनानां, द्वादशसंवत्सरस्य,षड्विंशतिसंवत्सरस्य, शतसंवत्सरस्य, अग्नेः सहस्रसा-ध्यायनस्य च।
“प्रथमस्य सारस्वतस्य षोडशिमन्ता-वतिरात्रौ” इत्यादिना त्रयाणां सारस्वतीनां, दाषर्दृत-तैरयोः, सर्पसत्रातिरात्रयोः दशि प्रथमस्य च कल्पः।
“पवस्व वाचो अग्रियः” इत्यादिना दशि द्वितीयस्य, तत्रउत्तरषण्मासे विपर्य्यासस्य च कल्पः। इत्येवं यागविशेषेदिनभेदे सूक्तपाठादिप्रयोगो दर्शितः। अन्येषु आश्वलाय-नसूत्रादिरूपेषु तेषु प्रतिपाद्यविषयाश्च तत्तच्छब्देदृश्याः। कल्पग्रन्थश्च वेदाङ्गभेदः तन्मूलमङ्गशब्दे

७२ पृ॰शिक्षादिवाक्यमुक्तम् तत्र
“हलों कल्पो ऽथ पठ्यते” इत्यत्र वैदिककर्म्मणां विधानज्ञानस्य कल्पग्रन्थाधीनत्वात्कर्म्मसाधनत्वेन हस्तसादृश्याद्धस्तता। पिवृकल्पः श्राद्धकल्पःपशुकल्पैत्यादि
“कल्पवित् कल्पयामास वन्यामेवास्यसंविधाम्” रघुः। अनुष्ठाने।
“वैश्यवच्छौचकल्पश्च” मनुः। सपूर्वपदः कल्पप्रत्ययनिष्पन्नस्तु ईषदसमाप्तप्रकृत्यर्थे।
“एते प्रदीपकल्पाः परस्परविलक्षणगुणविशेषाः” सां॰का॰।
“कार्य्यं त्वया नः प्रतिपन्नकल्पम्” कुमा॰।
“श्राद्धकल्पात्मकश्च यजुर्वेदपरिशिष्टभागः यजुर्वेदशब्देविवृतिः। अथर्ववेदस्यांशभेदरूपकल्पस्तु पञ्चविधः।
“नक्षत्रकल्पोवेदानां संहितानां तथैव च। चतुर्थः। स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः” विष्णुपु॰। हेमा॰दा॰ देवीपुराणे च
“पञ्च कल्पा मवन्ति नक्षत्रकल्पो[Page1820-a+ 38] वैतानः संहिताविधिराङ्गिरसः शान्तिकल्पश्च आथ-र्वणः” इति।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्प¦ mfn. (-ल्पः-ल्पा-ल्पं) In composition; Like, but with a degree of in- feriority. m. (-ल्पः)
1. A Sastra or sacred work; one of the six Vedangas, and comprehending the description of religious rites.
2. A day and night of BRAHMA, a period of 4,320,000,000 Solar- sydereal-years or years of mortals, measuring the duration of the world, and as many, the interval of its annihilation.
3. A destruc- tion of the world.
4. A sacred precept, practice prescribed by the Vedas for effecting certain consequences.
5. Propriety, fitness.
6. Optionality, alternative, doubt.
7. Resolve, purpose, any act of determination.
8. One of the trees of INDRA'S paradise of Swarga. E. कृप् to be able, घ affix, ऋ is changed to अल्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्प [kalpa], a. [क्लृप्-घञ्]

Practicable, feasible, possible,

Proper, fit, right.

Strong, vigorous; चरन्तं ब्राह्मणं कञ्चित्कल्पचित्तमनामयम् Mb.12.179.3.

Able, competent (with a gen., loc.; inf. or at the end of comp.); धर्मस्य, यशसः, कल्पः Bhāg. able to do his duty &c.; स्वक्रियायामकल्पः ibid. not competent to do one's duty; अकल्प एषामधिरोढुमञ्जसा पद्म्द्म् ibid., so स्वभरणाकल्प &c.

ल्पः A sacred precept or rule, law, ordinance.

A prescribed rule, a prescribed alternative, optional rule; प्रभुः प्रथमकल्पस्य यो$नुकल्पेन वर्तते Ms.11.3 'able to follow the prescribed rule to be observed in preference to all others'; प्रथमः कल्पः M.1; cf. also Pratimā 4, and Abhiṣekanāṭakam 6 and Ś.4. a very good (or best) alternative; एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः Ms. 3.147.

(Hence) A proposal, suggestion, resolve, determination; एष मे प्रथमः कल्पः Rām.2.52.63; उदारः कल्पः Ś.7.

Manner of acting, procedure, form, way, method (in religious rites); श्रूयते हि पुराकल्पे Mb. 6.43.23; क्षात्रेण कल्पेनोपनीय U.2; कल्पवित्कल्पयामास वन्यामे- वास्य संविधाम् R.1.94; Ms.7.185.

End of the world, universal destruction.

A day of Brahmā or 1, Yugas, being a period of 432 million years of mortals and measuring the duration of the world; cf. Bhāg.3.11; श्रीश्वेतवाराहकल्पे [the one in which we now live]; कल्पं स्थितं तनुभृतां तनु- भिस्ततः किम् Śānti.4.2. Hence कल्पिक means 'born in the primeval age' Bu. Ch.2.48.

Medical treatment of the sick.

One of the six Vedāṅgas, i. e. that which lays down the ritual and prescribes rules for ceremonial and sacrificial acts; शिक्षा कल्पो व्याकरणम् Muṇdtod; 1.1.5 see under वेदाङ्ग.

A termination added to nouns and adjectives in the sense of 'a little less than', 'almost like', 'nearly equal to', P.V.3.67 [denoting similarity with a degree of inferiority]; कुमारकल्पं सुषुवे कुमारम् R.5.36; उपपन्नमेतदस्मिन्नृषि- कल्पे राजनि Ś.2; प्रभातकल्पा शशिनेव शर्वरी R.3.2; so मृतकल्पः, प्रतिपन्नकल्पः &c.

The doctrine of poisons and antidotes.

One of the trees of paradise; cf. कल्पद्रुम.

Vigour, strength; लौकिके समयाचारे कृतकल्पो विशारदः Rām.2.1.22. -ल्पा, -ल्पम् A kind of intoxicating liquor. -Comp. -अन्तः end of the world, universal destruction; कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम् Bh.2.16. कल्पान्तक्रूरकेलिः क्रतुक्रदनकरः कुन्दकर्पूरकान्तिः Udb. ˚स्थायिन् a. lasting to the end of a कल्प; शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः H.1.46.-आदिः renovation of all things in the creation; कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् Bg.9.7; -उपनिषद् pharmacology; Charak 1.4.

कारः author of Kalpasūtra, q. v.

a barber. -क्षयः end of the world, universal destruction; e. g. कल्पक्षये पुनस्तानि Bg.9.7. पुरा कल्पक्षये वृत्ते जातं जलमयं जगत् Ks.2.1.

तरुः, द्रुमः, पादपः, वृक्षः one of the trees of heaven or Indra's praradise, fabled to fulfill all desires; आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि R.1.75; 17.26; Ku.2.39;6.41.

a tree supposed to grant all desires; 'wish-yielding tree'; नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम् R.14.48; मृषा न चक्रे$- ल्पितकल्पपादपः N.1.15.

any productive or bountiful source; निगमकल्पतरोर्गलितं फलम् Bhāg.1.1.3.

(fig.) a very generous person; सकलार्थिसार्थकल्पद्रुमः Pt.1.-नृत्यम् a particular kind of dance.

पालः a protector of order.

a seller of spirituous liquors.

लता, लतिका a creeper of Indra's paradise; Bh. 1.9.

a creeper supposed to grant all desires; नानाफलैः फलति कल्पलतेव भूमिः Bh.2.46; cf. कल्पतरु above.-वल्ली see कल्पलता; Ks.1.66; कल्पवल्लीगृहेषु 52.21.-विद् a. conversant with sacred precepts; कल्पवित्कल्पया- मास वन्यामेवास्य संविधाम् R.1.94.

स्थानम् the art of preparing drugs; Charak 7.

the science of poisons and antidotes; Suśr. -सूत्रम् a manual of ritual in the form of Sūtras. Mb.14.54.9. N. of a sacred Jaina book written by भद्रबाहु sketching the life of महावीर.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्प mf( आ)n. ( कॢप्) , practicable , feasible , possible S3Br. ii , 4 , 3 , 3

कल्प mf( आ)n. proper , fit , able , competent , equal to (with gen. loc. , inf. , or ifc. ; e.g. धर्मस्य कल्पः, competent for duty ; स्वकर्मणि न कल्पः, not competent for his own work ; यदा न शासितुं कल्पः, if he is not able to rule) BhP.

कल्प m. a sacred precept , law , rule , ordinance(= विधि, न्याय) , manner of acting , proceeding , practice ( esp. that prescribed by the वेदs) RV. ix , 9 , 7 AV. viii , 9 , 10 ; xx , 128 , 6-11 MBh.

कल्प m. ( प्रथमः कल्पः, a rule to be observed before any other rule , first duty Mn. iii , 147 MBh. etc. ; एतेन कल्पेन, in this way ; See. पशु-क्, etc. )

कल्प m. the most complete of the six वेदाङ्गs (that which prescribes the ritual and gives rules for ceremonial or sacrificial acts) Mun2d2Up. Pa1n2. etc.

कल्प m. one of two cases , one side of an argument , an alternative (= पक्ष; See. विकल्प) Sarvad.

कल्प m. investigation , research Comm. on Sa1m2khyak.

कल्प m. resolve , determination MW.

कल्प m. (in medic. ) treatment of the sick , manner of curing Sus3r. ii

कल्प m. the art of preparing medicine , pharmacy Car.

कल्प m. the doctrine of poisons and antidotes Sus3r. i

कल्प m. ( ifc. )having the manner or form of anything , similar to , resembling , like but with a degree of inferiority , almost( e.g. अभेद्य-कल्प, almost impenetrable ; See. प्रभात-क्, मृत-क्, etc. ; according to native grammarians , कल्पso used is an accentless affix [ Pa1n2. 5-3 , 67 ] , before which a final स्is left unchanged , and final ईand ऊshortened Pa1n2. Vop. ; 546080 कल्पम्ind. , may be also connected with a verb e.g. पचति-कल्पम्, he cooks pretty well Ka1s3. on Pa1n2. 8-1 , 57 )

कल्प m. a fabulous period of time (a day of ब्रह्माor one thousand युगs , a period of four thousand , three hundred and twenty millions of years of mortals , measuring the duration of the world ; a month of ब्रह्माis supposed to contain thirty such कल्पs. ; according to the MBh. , twelve months of ब्रह्माconstitute his year , and one hundred such years his lifetime ; fifty years of ब्रह्मा's are supposed to have elapsed , and we are now in the श्वेतवाराह-कल्पof the fifty-first ; at the end of a कल्पthe world is annihilated ; hence कल्पis said to be equal to कल्पा-न्तbelow L. ; with Buddhists the कल्पs.are not of equal duration) VP. BhP. Ra1jat. etc.

कल्प m. N. of मन्त्रs which contain a form of कॢप्TS. v S3Br. ix

कल्प m. a kind of dance

कल्प m. N. of the first astrological mansion VarBr2S.

कल्प m. N. of a son of ध्रुवand भ्रमिBhP. iv , 10 , 1

कल्प m. of शिवMBh. xii , 10368

कल्प m. the tree of paradise

कल्प m. = -तरुbelow L.

कल्प m. (with जैनs) a particular abode of deities(See. -भवand कल्पा-तीतbelow)

कल्प n. a kind of intoxicating liquor (incorrect for कल्य) L.

कल्प Nom. A1. पायते, to become a कल्प, to appear as long as a कल्पHcar.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Dhruva and भ्रमी. भा. IV. १०. 1.
(II)--a nephew of हिरण्यकशिपु. M. 6. २६.
(III)--the period of fourteen Manus or १००० युगस् followed by प्रलय; फलकम्:F1:  भा. II. 8. १२; IV. 9. १४; XII. 4. 2-3; Br. IV. 1. ११६, १७३ and २१०; Vi. III. 2. ५०-2; VI. 3. १२.फलकम्:/F in the day ब्रह्मा; in the night नारायण sleeping over his couch शेष the thirty कल्पस् and the thirty days of ब्रह्मा. These are mixed, तामस, राजस and सात्विक फलकम्:F2:  M. २९०. 1-१६.फलकम्:/F from क्लिपु, to introduce with intelli- gence; the fourteen सम्स्थस् ब्रह्मा introduced and hence कल्प; फलकम्:F3:  वा. 7. ७७; २१. २८ff.फलकम्:/F twenty-eight in number, each of two कल्पार्धस्; फलकम्:F4:  वा. २१. १७-18; २२. 7; ३०. २३१: ५९. १३८; ६१. ५४ and १०२.फलकम्:/F the १४ कल्पस् made by ब्रह्मा and hence the name. फलकम्:F5:  Br. II. 6. ७४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KALPA I : A son of Dhruva. See under DHRUVA.


_______________________________
*3rd word in left half of page 378 (+offset) in original book.

KALPA II : A period of one thousand Yugas or fourteen Manvantaras. See under MANVANTARA.


_______________________________
*4th word in left half of page 378 (+offset) in original book.

KALPA III : The customary proceedings of Yāgas. These proceedings are made in the form of Sūtras. The Sūtras describe how the Brāhmaṇas and mantras are to be used. For each Saṁhitā there are separate Śrauta Sūtras. The Śrauta Sūtras for Ṛgveda Saṁhitā are Āśvalāyana, Śāṁkhāyana and Śaunaka. Those for Sāmaveda are Maśaka, Lāṭyāyana and Drāhyāyaṇa. Those for Kṛṣṇa Yajurveda are Āpastamba Bauddhā- yana, Satyāṣāḍha, Hiraṇyakeśī, Mānava, Bhāradvāja, Vādhūla, Vaikhānasa, Laugākṣi, Maitra, Kaṭha and Vārāha. For Śuklayajurveda it is Kātyāyana Srauta Sūtra. For Atharvaveda it is Kauśika Śrauta Sūtra. All these Sūtras contain only brief symbolic words and are difficult to understand without explanation.


_______________________________
*5th word in left half of page 378 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kalpa in the Taittirīya Āraṇyaka (ii. 10) seems to denote Kalpa Sūtra.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्प पु.
(क्लृप् + घञ्) कर्मकाण्डीय प्रक्रिया, भा.श्रौ.सू. 6.9.3 (दोहन-कल्प); कर्मकाण्डीय कृत्य, मा.श्रौ.सू. 4.4.23; कार्य करने की प्रविधि (तरीका) या नियम (ऋ.वे. 9.9.7); अर्थात् कर्मकाण्ड-सम्बन्धी ज्ञान। यह कहा जाता है कि केवल कर्मकाण्डपरक ज्ञान किसी विद्यार्थी को स्नातकत्व के योग्य नहीं बनाता है। उसे षडङ्गसहित वेद का अध्ययन एवं अधिगम करना चाहिए, पा.गृ.सू. 2.6.7 (समावर्तन); पशुयाग के नियम, आश्व.गृ.सू. 1.11.1; कृत्य भी (पशु) विष्णुमित्र ने वेदाङ्गविशेष के वाचक कल्प शब्द को इस प्रकार से परिभाषित किया है-कल्पो हि वेदविहितानां कर्मणामानुपूर्व्येण कल्पनाशास्त्रम् (ऋ.प्रा.वृत्ति, पृ. 24)। कल्पयति (क्लृप् + णिच् + ल.प्र.पु.ए.व.) यज्ञिय यूप को स्थिर बनाता है (छिद्र या गड्ढे में), भा.श्रौ.सू. 7.8.1०।

"https://sa.wiktionary.org/w/index.php?title=कल्प&oldid=495405" इत्यस्माद् पुनः प्राप्तिः