सामग्री पर जाएँ

कल्पपादप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कल्पपादपः, पुं, (कल्पयति सर्व्वकामं सम्पादयति । इति कल्पः । स चासौ पादपश्चेति कर्म्मधारयः ।) कल्पवृक्षः । यथा नैषधे । १ । १५ । “मृषा न चक्रेऽल्पितकल्पपादपः” ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कल्पपादप¦ पु॰ कर्म्म॰ राहुशिरोवत् त॰ स॰ वा।

१ सुर-तरुभेदे
“मृषा न चक्रेऽल्पितकल्पपादपः” नैष॰। महादानान्तर्गते स्वर्णनिर्म्मितपादपाकारे देये

२ द्रव्यभेदेतद्विधानं हेमा॰ दा॰ उक्तं यथा-
“मत्स्य उवाच।
“कल्पपादपदानाख्यमतः परमनुत्तमम्। महादान प्रवक्ष्यामि सर्व्वपातकनाशनम्। पुण्यं दिन-[Page1823-a+ 38] मथासाद्य तुलापुरुषदानवत्। पुण्याहवाचनं कुर्य्या-ल्लोकेशावाहनं तथा। ऋत्विग्मण्डपसम्भारभूषणाच्छा-दनादिकम्”। आदिशब्देण कालदेशवृद्धिश्राद्धशिवादि-पूजागुर्वृत्विग्चतुष्टयवरण--मधुपर्कं--दान--होम--वेदिको-परिचक्र--लेखनपञ्चवर्ण--वितानपताकातोरणादि, मत्स्य-पुराणोक्ततुलापुरुषदानवद्वेदितव्यम्।
“काञ्चनान्कारयेद्वृक्षान् नानाफलसमन्वितान्। नानाविहारवस्त्राणिभूषणानि च कारयेत्”। नानाफलेति, पूंस्त्रीगो-गज--वाजि--मणि--वज्र--कनक--रजत--भक्ष्यफलादोणि।
“शक्तितस्त्रिपलादूर्द्धमासहस्रात् प्रकल्पयेत्। अर्द्धात् कॢप्त-सुवर्ण्णस्य कारयेत् कल्पपादषम्। गुडप्रस्थोपरिष्टाच्चसितवस्त्रयुगावृतम्। कामदेवमधस्ताच्च सकलत्रं प्रक-ल्पयेत्”। अर्द्धात् कॢप्तसुवर्ण्णस्येति यथाशक्ति दानार्थकॢप्त-सुबर्ण्णस्यार्द्धेन ब्रह्मादिप्रतिमासहितं कल्पपादप कुर्य्यात्द्वितीयमप्यर्द्धं चतुर्द्धा विभज्य एकैकांशेन वक्ष्यमाणस्वस्व-देवतासहितान् सन्तानादीन् विदध्यात्, गुडप्रस्थोऽत्र
“द्वात्रिंशत्पलिकः प्रस्थः पुराणे परिकीर्त्तित” इति। ब्रह्मादिलक्षणमुक्तं ब्रह्माण्डदाने, कामदेवरूपन्तु विष्णु धर्मो-त्तरात्
“कामदेवस्तु कर्त्तव्योरूपेणाप्रतिमो भुवि। अष्ट-बाहुः प्रकर्त्तव्यः शङ्खपद्मविभूषणः। चापवाणकरश्चैवसमाकुञ्चितलोचनः। रतिः प्रीतिस्तथाशक्तिर्भार्य्याश्चैता-स्तथोज्ज्वला। चतस्रस्तस्य कर्त्तव्याः पत्न्योरूपमनोहराः। चत्वारश्च करास्तस्य कार्य्या भार्य्यास्तनोपगाः। केतुश्चमकरः कार्य्यः पञ्चवाणमुखोमहानिति”। अधस्तादितिब्रह्मादिभिरपि सम्बध्यते। अत्र प्रकृतौ परिमाणाभावात्{??}उरुषेच्छया प्रतिमादिपरिमाणानियमः।
“सन्तानं पूर्व्व-वत्तद्वत्तुरीयांशेन कल्पयेत्” तुरीयांशेन, द्वितीयार्द्ध-चतुर्थांशेनेत्यर्थः। तद्वत्कल्पवृक्षबत्, पञ्चशाखं गुडप्रस्थो-परिगतं ब्रह्मादिप्रतिमान्वितं कुर्य्यादित्यर्थः। केचित्तुकामदेवमधस्तात् प्रकल्पयेदितिसन्तानवृक्षे योजयन्ति, तन्मतेतत्प्रतिमैव कर्त्तव्या।
“मन्दार दक्षिणे पार्श्वेश्रिया सार्द्धंघृतोपरि। पश्चिमे पारिभद्रन्तु सावित्र्या सह जीरके। सुरभीसंयुतं तद्वन्निवेश्यं हरिचन्दनम्। तुरीयांशेन कुर्वीतसौम्येन फलसंयुतम्”। श्रोलक्षणमुक्तं ब्रह्माण्डदाने, सावि-त्रीलक्षणमाह नारदः
“पद्मासना च सावित्री साक्षसूत्र-कमण्डलुः”। सुरभीलक्षणं ब्रह्माण्डपुराणे
“सवत्सासुरभी, धेनुरारक्ता प्रस्नुतस्तनीति,
“सौम्येन, उत्तरेण। घृतादीनासपि परिमाणापेक्षायां तद्वदिति वचनात् मलि-[Page1823-b+ 38] धानाच्च प्रस्थपरिमाणत्वमवधेयम्।
“कौशेयवस्त्रंसंयुक्तानि-क्षुमाल्यफलान्वितान्। तथाष्टौ पूर्ण्णकलशान् पादुकासन-भाजनम्। दीपकोपानहच्छत्रचामरासनसंयुतम्। फल-माल्ययुतं तद्वदुपरिष्टाद्वितानयकम्। तथाष्टादश धान्यानिसमन्तात् परिकल्पयेत्”। अशनभाजनं, भोज्यान्वित-भाजनं वितानं पञ्चवर्ण्णम्। अथ पूर्व्ववत् पूर्व्वेद्युरवि-वासनं विधाय श्वोभूते ब्राह्मणवाचनादिपूर्णाहुतिपर्य्यन्तंकर्म्मशेषं समापयेत्।
“होमाधिवासनान्ते च स्नापितोवेदिपुङ्गवैः। त्रिःप्रदक्षिणमावृत्य मन्त्रमेतमुदीरयेत्। नमस्ते कल्पवृक्षाय चिन्तितार्थप्रदायिने। विश्वम्भरायदेवाय नमस्ते विश्वमूर्त्तये। यस्मात् त्वमेव विश्वात्माब्रह्मा स्थाणुर्दिवाकरः। मूर्त्तामूर्त्तपरं वीजमतः पाहिसनातनः! त्वमेवामृतसर्व्वस्वमनन्तः पुरुषोऽव्ययः। स-न्तानाद्यैरुपेतः सन् पाहि संसारसागरात्”। अमृता,देवाः तेषां सर्व्वस्वं, अमृतसर्वस्वम्।
“एवमामन्त्र्य तंदद्यात् गुरवे कल्पपादपम्। चतुर्भ्यश्चापि ऋत्विग्भ्यःसन्तानादीन् प्रकल्पयेत्”। दानवाक्यमत्र तुलापुरुषोक्त-मूहनीयं, चतुर्भ्यः प्रकल्पयेदित्येकैकस्मै दद्यादित्यर्थः। चतुर्भ्यैतिवचनादत्र चतुर्णामेवर्त्विजां वरणमिति गम्यतेऋत्विगष्टकपक्षे तु ऋत्विग्भ्य इति ऋत्विग्युग्मेभ्य इत्यर्थः। एतस्मिंश्च पक्षे जापकादिभ्योऽन्यैव दक्षिणा दातव्या। वेदचतुष्टयापेक्षया चतुःसंख्यत्वमिदमृत्विजामिति केचित्। इहापि
“प्राप्य तेषामनुज्ञाञ्च तथान्येभ्योपि दापये-दिति” बोद्धव्यम। दक्षिणानिर्ण्णयश्च पूर्व्ववत्। स्वल्पे-ष्वेकाग्निवत् कुर्य्याद् गुरवे वाभिपूजनम्। न वित्तशाठ्यंकुर्वीत न च विस्मयवान् भवेत्”। स्वल्पत्वविवरणमुक्तब्रह्माण्डदाने। ततः पुण्याहवाचने कृते वेदिसमीप गत्वाकृतदेवपूजोयजमानोगुरुश्च पूर्ववदेव देवताविसर्जनं कुर्य्यात्।
“अनेन विधिना यस्तु महादानं निवेदयेत्। सर्व्वपाप-विनिर्मुक्तः सोऽश्वमेधफलं लभेत्। अप्सरोभिः परि-वृतः सिद्धचारणपन्नगैः। भूतान् भव्यांश्च मनुजांस्ता-रयेद्रोमसंमितान्। स्तूयमानो दिवःपृष्ठे पितृपुत्रप्रपौत्रवान्। विमानेनार्कवर्णेन विष्णुलोकं स गच्छतिदिवि कल्पशतं तिष्ठेद्राजराजो भवेत् ततः। नारायणबलोपेतो नारायणपरायणः। नारायणकथासक्तो नारायणपुरं व्रजेत्। यो वा पठेत् सकलकल्पतरुप्रदानं,यो वा शणोति पुरुषोऽल्पधनः स्मरेद्वा। सोऽपीन्द्रलोक-मयिगम्य सहाप्सरोभिर्म्मन्वन्तरं वसति पापविमुक्तदेहः”। [Page1824-a+ 38] इति मत्स्यपुराणोक्तकल्पतरुदानविधिः। तत्रैव लिङ्गपुराणे,
“सनत्कुमार उवाच। अथान्यत् संप्रवक्ष्यामि कल्पपाद-पमुत्तमम्। शतनिष्केण कर्त्तव्यं सर्वशस्यसमन्वि-तम्
“। सर्वशाखाः, सर्वदिगन्तशाखाः।
“शाखायांविधिना कृत्वा मुक्तादाम प्रलम्बितम्। दिव्यैर्म्मरकतैश्चैवचाङ्कुराणि प्रविन्यसेत्”। दिव्यैः, उत्कृष्टैरित्यर्थः।
“प्रबालङ्कारयेद्धीमान् प्रबालेन द्रुमस्य च”। प्रबालेन प्रबा-लङ्कारयेदिति, विद्रुमैर्बालपल्लवान् कारयेत्यदिर्थः।
“फलानिपद्मरागैश्च पारिजातस्य शोभनम्। मूलदण्डञ्च नीलेनवज्रेण स्कन्धमुत्तमम्। वैदूर्य्येण द्रुमाग्रञ्च पुष्परागेणमस्तकम्”। स्कन्धादूर्द्ध्वभागो मस्तकं, तदूर्द्धं, द्रुमा-ग्रम्।
“गोमेदकेन वै स्कन्धं सूर्य्यकान्तेन सुव्रतः। चन्द्रकान्तेन वा वेदिं द्रुमस्य स्पटिकेन वा। वितस्तिमात्र आयामो वृक्षस्य परिकीर्त्तितः। शाखा-ष्टकसमानञ्च विस्तारञ्चोर्द्धतस्तथा”। शाखाव्यतिरिक्तस्यवृक्षस्य वितस्तिमात्र उच्छ्रायः कार्य्यः, उर्द्ध्वतस्तथेति,स्कन्धादूर्द्ध्वमुखी नवमी या मध्यमशाखा तस्या अपि वि-तस्तिमात्र उच्छ्रायः, शाखाष्टकसमानं विस्तारमिति,अष्टदिग्मुखीनामष्टशाखानां विस्तारं तिर्य्य ग्व्याप्ति-वितस्तिमात्रमेव कुर्य्यादित्यर्थः।
“तन्मूले स्थापयेल्लिङ्गंलोकपालसमावृतम्। पूर्व्वीक्तवेदिमध्ये तु मण्डले स्थाप्यपादपम्। पूजयेद्देवमीशानं लोकपालांश्च यत्नतः। पूर्व-वज्जपहोमाद्यन्तुलाभारवदाचरेत्। निवेदयेद्द्रुमं शम्भो-र्ब्राह्मणायाथ वा नृप!। ब्राह्मणेभ्योऽथवा राजा सार्व-भौमो भविष्यति”। तुलाभारवदाचरेदिति लिङ्गपुरा-णोक्ततुलापुरुषदानविहितविधिमाचरेदित्यर्थः। कालो-त्तरे।
“फलानान्तु सहस्रेण कल्पयेत् कल्पपादपम्। समूलदण्डपत्रञ्च फलपुष्पसमन्वितम्। पञ्चस्कन्धन्तुसंकल्प्य पञ्चानां स्थापयेत् सुधीः। सद्योजातेन मन्त्रेणदेय ग्राह्यं शिवाग्रतः। दिव्यैर्विमानैर्देहान्ते शिवलोकेमहीयते। पितरस्तस्य मोदन्ते सत्यलोके महीपते!”। इति लिङ्गपुराणो क्तकल्पपादपदानविधिः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कल्पपादप/ कल्प--पादप m. = -तरुabove Naish.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--see कल्पवृक्ष। M. २७४. 7.

"https://sa.wiktionary.org/w/index.php?title=कल्पपादप&oldid=495416" इत्यस्माद् प्रतिप्राप्तम्