सामग्री पर जाएँ

कल्पपादपदानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कल्पपादपदानम्, क्ली, (कल्पपादपस्य सुवर्णनिर्मितपाद- पाकृतेर्दानम् ।) महादानविशेषः । तद्विधानं यथा, “कल्पपादपदानाख्यमतः परमनुत्तमम् । महादानं प्रवक्ष्यामि सर्व्वपातकनाशनम् ॥ पुण्यन्दिनमथासाद्य तुलापुरुषदानवत् । पुण्याहवाचनं कृत्वा लोकेशावाहनन्तथा ॥ ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् । काञ्चनं कारयेद्वृक्षं नानाफलसमन्वितम् ॥ नानाविहगवस्त्राणि भूषणानि च कारयेत् । शक्तितस्त्रिपलादूर्द्ध्व मासहस्रात् प्रकल्पयेत् ॥ अर्द्धकॢप्तं सुवर्णस्य कारयेत् कल्पपादपम् । गुडप्रस्थोपरिष्टाच्च सितवस्त्रयुगावृतम्” ॥ अर्द्धकॢप्तं यावदुपात्तसुवर्णस्यार्द्धेन निर्मितम् । “ब्रह्मविष्णुशिवोपेतं पञ्चशाखं समास्करम् । कामदेवमधस्ताच्च सकलत्रं प्रकल्पयेत् ॥ सन्तानं पूर्ब्बतस्तद्वत्तुरीयांशेन कल्पयेत् । मन्दारं दक्षिणे पार्श्वे श्रिया सार्द्धं घृतोपरि” ॥ सन्तानं पूर्ब्बतस्तद्वदिति गुडप्रस्थस्थं सितवस्त्रयुगा- वृतमित्यर्थः । कामदेवमधस्ताच्चेति सन्तानवृक्षस्या- धस्तात् सकलत्रं कामदेवं प्रकल्पयेदिति योजनम् । मन्दारादिष्वेकैकदेवतासम्बन्धश्रुतेः ॥ “पश्चिमे पारिभद्रन्तु सावित्र्या सह जीरके । सुरभीसंयुतं तद्वत्तिलेष हरिचन्दनम् ॥ तृतीयांशेन कुर्व्वीत सौम्येन फलसंयुतम् । कौषेयवस्त्रसंयुक्तानिक्षुमाल्यफलान्वितान्” ॥ तृतीयांशेनसन्तानघटनावस्थितसुवर्णतृतीयभागेन । सौम्येन उत्तरदिग्विभागेन ॥ “तथाष्टपूर्णकलसान् पादुकासनभाजनान् । दीपिकोपानहच्छत्रचामरासनसंयुतम्” ॥

"https://sa.wiktionary.org/w/index.php?title=कल्पपादपदानम्&oldid=125388" इत्यस्माद् प्रतिप्राप्तम्