कल्पलतादान
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कल्पलतादानम्, क्ली, (महादानान्तर्गता सुवर्णकल्पिता लता तस्या दानम् ।) महादानविशेषः ॥ तस्य विधिर्यथा । “अथातः संप्रवक्ष्यामि महादानमनुत्तमम् । महाकल्पलतं नाम पातकावलिनाशनम् ॥ पुण्यान्तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम् । ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ॥ तुलापुरुषवत् कुर्य्यात् लोकेशावाहनादिकम् । चामीकरमयीः कुर्य्याद्दशकल्पलताः शुभाः ॥ नानापुष्पफलोपेता नानांशुकविभूषिताः । विद्याधरसुपर्णानां मिथुनैरुपशोभिताः” ॥ सुपर्णानां किन्नराणाम् ॥ “हारानादित्सुभिः सिद्धैः फलानि च विहङ्गमैः । लोकपालानुसारिण्यः कर्त्तव्यास्ताश्च देवताः” ॥ लोकपालानुसारिण्य इति लोकपालसमानाकृतयः ॥ “ब्राह्मीमनन्तशक्तिञ्च लवणस्योपरि न्यसेत् । अधस्ताच्च तयोर्मध्ये महाखड्गधरे शुभे” ॥ पद्मशङ्खकरे इति क्वचित् पाठः ॥ “स्वर्णासनस्था माहेन्द्री पूर्ब्बतः कुलिशायुधा । रजनीसंस्थिताग्नेयी श्रुवपाणिरथाचला” ॥ रजनी हरिद्रा ॥ “याम्या तु महिषारूढा गदिनी तण्डुलोपरि । नैरृत्यां नैरृती स्थाप्या सखड्गा च घृतोपरि ॥ वारुणे वारुणी क्षीरे सर्पस्था नागपाशिनी । पताकिनी च वायव्ये मृगस्था शर्करोपरि ॥ सौम्या तिलेषु संस्थाप्या कौवेरदिशि संस्थिता । माहेश्वरी वृषगता नवनीते तु शूलिनी ॥ मौलिन्यो वरदास्तद्वत् कर्त्तव्या बालकान्विताः । शक्त्या पञ्चपलादूर्द्ध्वमासहस्रात् प्रकल्पयेत्” ॥
