कल्मषम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कल्मषम्, क्ली, (कर्म्म शुभकर्म्म स्यति नाशयति रस्य लत्वे षत्वे च पृषोदरादित्वात् साधुः ।) पापम् । इत्यमरः । १ । ४ । २३ ॥ (यथा, मनुः १२ । २२ । “यामीस्ता यातनाः प्राप्य सजीवो वीतकल्मषः । तान्येव पञ्चभूतानि पुनरप्येति भागशः” ॥) हस्तपुच्छम् । इति त्रिकाण्डशेषः ॥ (मालिन्यम् । यथा, हेः रामायणे २ । ३६ । २७ । “न हि कञ्चन पश्यामो राघवस्यागुणं वयम् । दुर्लभोऽह्यस्य निरयः शशाङ्कस्येव कल्मषम्” ॥)
