सामग्री पर जाएँ

कल्माषपादः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कल्माषपादः, पुं, (कल्माषौ शापजलप्रक्षेपणात् कृष्ण- वर्णौ पादौ यस्य ।) सौदासराजः । इति श्रीभा- गवतम् ॥ (यथा, महाभारते १ । १७७ । १ । “कल्माषपाद इत्येवं लोके राजा बभूव ह । इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि” ॥) अस्य यथा कल्माषपादत्वं जातं तदुच्यते । नलसखस्य ऋतुपर्णस्य वंशजः सौदासनामा नृपतिः पुरा मृगयां चरन् एकं राक्षसमवधीत् । अस्य रक्षसो भ्राता तु वैरशोधनं चिकीर्षुः सूदरूपधरोऽस्य राज्ञो गृहं प्रत्युवास । एकदा तु असौ राक्षसः भोक्तुकामाय नृपतेः सौदा- सस्य गुरवे वशिष्ठाय नरामिषं पक्त्वा ददौ । वशिष्ठस्तु तदभोज्यं दृष्ट्वातिक्रुद्धः “राक्षसो भविष्यतीति” राजानमशपत् । राजा तु शाप- वृत्तान्तं विदित्वा विनापराधेन प्रदत्तः शापः इति विचिन्त्य जलमादाय गुरुं प्रतिशप्तुं समुद्यतः । एतस्मिन्नन्तरेऽस्य पत्नी मदयन्ती दृष्ट्वैवमकर- णीयोद्यतं पतिं निवारयामास । राजा तु तया निवारितः स्वपादयोः शापजलं प्रक्षिप्तवान् । एतदारभ्यायं पादयोः कल्माषतां प्राप्तवान् ॥ अस्य अन्या विस्तृतिस्तु भागवते ९ । ९ अध्याये, तथा महाभारते १ । १७७ अध्याये द्रष्टव्या ॥)

"https://sa.wiktionary.org/w/index.php?title=कल्माषपादः&oldid=125422" इत्यस्माद् प्रतिप्राप्तम्