सामग्री पर जाएँ

कल्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कल्यः, त्रि, (कलासु साधुः इति यत् ।) सज्जः । (यथा, महाभारते १ । ५ । ३ । कथयस्व कथामेतां कल्याः स्म श्रवणे तव” ॥) निरामयः । इत्यमरः । ३ । ३ । १५९ ॥ वाक्श्रुति- वर्जितः । दक्षः । कल्याणवचनम् । उपायवचनम् । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=कल्यः&oldid=125428" इत्यस्माद् प्रतिप्राप्तम्