कल्याणम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कल्याणम्, क्ली, (कल्ये प्रातः अण्यते शब्द्यते इति । कल्य + अण् + “अकर्त्तरिचेति” ३ । ३ । १९ । घञ् ।) मङ्गलम् । (यथा, विष्णुपुराणे । १ । १२ । १०२ । “स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि । सर्व्वकल्याणसंयुक्तो दीर्घकालञ्च जीवति” ॥) तत्पर्य्यायः । श्वः २ श्रेयसम् ३ शिवम् ४ भद्रम् ५ शुभम् ६ भावुकम् ७ भविकम् ८ भव्यम् ९ कुश- लम् १० क्षेमम् ११ शस्तम् १२ । तद्युक्ते त्रि । इत्य- मरः । १ । ४ । २५, २६ ॥ (यथा, मनुः ८ । ३९२ । “प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे” ॥) स्वर्णम् । इति मेदिनीकरहेमचचन्द्रौ ॥
