सामग्री पर जाएँ

कवचः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कवचः, पुं, क्ली, (कं देहं वञ्चति विपक्षास्त्राणि वञ्चयित्वा रक्षति इति शेषः । क + वन्च् + अच् । कं वातं वञ्चति वा अन्तर्ण्यर्थो वा । यद्वा कवते- इति कुधातोरच् प्रत्यय इति केचित् इत्युणादि- कोषः ४२ । २ ।) सन्नाहः । सा~जोया इति भाषा । (यथा, विष्णुपुराणे । १ । १३ । ४० । “शराश्च दिव्या नभसः कवचञ्च पपात ह” ॥) तत्पर्य्यायः । तनुत्रम् २ वर्म्म ३ दंशनम् ४ उरश्छदः ५ कङ्कटकः ६ जगरः ७ । इत्यमरः । २ । ८ । ६४ ॥ दंसनम् ८ जागरः ९ अजगरः १० । इति तट्टीका ॥ कटकः ११ योगः १२ सन्नाहः १३ कञ्चुकः १४ । इति जटाधरः ॥ * ॥ तस्य युक्तिर्यथा । खड्गादीनान्तु गणना पूर्ब्बमेव निदर्शिता । अस्त्रात्मनैव निर्द्दिष्टकवचादिरपीष्यते ॥ तल्लक्षणं संग्रहेण प्रवक्ष्यामि निबोधत । काष्ठं चर्म्म च सकलं त्रयमेतत्तु दुस्तरम् ॥ यथोत्तरं गुणयुतं तथा पूर्ब्बन्तु निन्दितम् । शरीरावरकत्वन्तु लघुत्वं दृढता तथा ॥ दुर्भेद्यतेति कथितः कुवचे गुणसंग्रहः । सच्छिद्रतातिगुरुता तनुता सुखभेद्यता ॥ कवचानां विनिर्द्दिष्टः समासाद्दोषसंग्रहः । अत्र वर्णो विनिर्द्दिष्टः क्रमादेवं चतुर्व्विधः ॥ सितो रक्तस्तथा पीतः कृष्णो ब्रह्मादिषु क्रमात् । केचित् कुर्व्वन्ति कुशलाः कवचं धातुसम्भवम् ॥ कनकं रजतं ताम्रं लौहं तेषु यथाक्रमम्” ॥ इति युक्तिकल्पतरुः ॥ * ॥ “यथा शस्त्रप्रहाराणां कवचं प्रति वारणम् । तथा दैवोपघातानां शान्तिर्भवति वारणम्” ॥ इति मलमासतत्त्वम् ॥ लौहादिवर्म्मवत् अङ्गादि- रक्षणार्थं देवतामन्त्रविग्रहम् । तत्तु पूजायां पाठ्यं भूर्ज्जे विलिख्य कण्ठादौ धार्य्यञ्च । इति तन्त्रम् ॥ गर्द्धभाण्डवृक्षः । पटहवाद्यम् । इति मेदिनी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कवचः [kavacḥ] चम् [cam], चम् [cf. Uṇ.4.2.]

An armour, coat of mail, a mail.

An amulet, a charm, a mystical syllable (हुम्-हूम्) considered as a preservative like armour.

A kettle-drum. -Comp. -पत्रः the birch tree. -हर a.

wearing armour.

old enough to wear an armour; कवचहरः कुमारः Sk. on P.III.2.1. cf. वर्महर in R.8.94. (-रः) a boy, child.

"https://sa.wiktionary.org/w/index.php?title=कवचः&oldid=267724" इत्यस्माद् प्रतिप्राप्तम्