कव्यबाल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कव्यबालः, पुं, (कव्यं बल्यते दीयते अस्मै । कव्य + बल् दाने + सम्प्रदाने घञ् ।) पितृगणविशेषः । इति त्रिकाण्डशेषः ॥ (यथा, वायुपुराणे । “कव्यबालोऽनलः सोमः यमश्चैवार्य्यमा तथा । अग्निस्वात्ता वर्हिषदः सोमपाः पितृदेवताः” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कव्यबाल¦ पु॰ कव्यं बलते ददाति अत्र बल--दानेआधारे घञ्।
१ वह्नौ तत्र दाने हि पितॄणां दाननि-प्पत्तेस्तथात्वम्। कव्यं बल्यते दीयते बल--दानेसम्प्रदाने घञ्।
२ पितृदेवभेदे त्रिका॰
“कव्यबालीऽनलःसोमः यमश्चैवार्यमा तथा। अग्निष्वात्ता बर्हिषदः[Page1834-b+ 38] सोमपाः पितृदेवताः वायु॰ पु॰ लस्य बा डःकव्यबाडोऽप्यत्र।
