सामग्री पर जाएँ

कशेरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कशेरु, क्ली पुं, (के देहे शीर्य्यते । क + शॄ + “केश्र एर ङ चास्य” । उणां १ । ९० । इति उः एरङ्- चान्तादेशः ।) पृष्ठास्थि । पिठेर दा~डा इति भाषा । इति हलायुधः ॥ (पुं सि उदाहरणं । “किं कुर्व्वता वराहेण खाद्यन्ते हि कशेरवः” । इत्युणाटिकाधृतचन्द्रवचनम् ।)

कशेरु, क्ली, (कं जलं वातं वा शृणाति । क + शॄ + उणादित्वात् उः । एरङ्चान्तादेशः ।) कशेरुका । केशुर इति भाषा । इति रत्नामाला ॥ राजनिर्घण्टे दन्त्यसकारवान् पुंलिङ्गोऽप्ययं शब्दः ॥ (“कशेरु द्विविधं तत्तु महद्राजकशेरुकम् । मुस्ताकृतिलघुः स्यात् यत् तच्चिवोटमिति स्मृतम्” ॥ इति वैद्यकम् ॥)

कशेरुः, पुं, (क + शॄ + उ + एरङ् ।) जम्बुद्वीपस्य खण्डविशेषः । इति शब्दमाला ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कशेरु(रू)¦ स्त्री कं जलं वातं वा शृणाति शॄ--
“के श्र एरक्-चास्य” उणा॰ ऊ उ वा। तृणकन्दभेदे (केशुर) उज्ज्व॰। दीर्घान्तःत्वष्टुश्चतुर्दश्यां

२ कन्यायां सा च नरकासुरेण गजरू-पेण हृता तत्कथा हरिवं॰

१२

१ अ॰ यथा
“त्वष्टुर्दुहितरं भौमः(नरकासुरः) कशेरूमगमत्तदा। गजरूपेण जग्राह रुचि-राङ्गीं चतुर्दशीम्। प्रमथ्य तां वरारोहां नरकोवाक्यमब्रवीत्” उप्रत्ययान्तः पुंसि च।
“किं कुर्व्वता वराहेण खाद्यन्तेहि कशेरवः”। उज्ज्व॰ चन्द्रः। ह्रस्वान्तं क्लीवमाहअमरः।
“शृङ्गाटकं विसं द्राक्षा कशेरु मधुकं सिता” सुश्रु॰। स्वार्थेकन्। तत्रार्थे न॰। तद्भेदगुणा भावप्र॰ उक्तायथा।
“कशेरु द्विविधं तत्तु महद्राजकशेरुकम्। मुस्ताकृति लघु स्याद्यत्तच्चिचोटमिति स्मृतम्। कशेरुक-द्वयम् शीतं मधुरं तुवरं गुरु। पित्तशोणितदाहघ्नं नयना-मयनाशनम्। ग्राहि शुक्रानिलश्लेष्मरुचिस्तन्यकरम्परम्। भारतवर्षस्य नवखण्डान्तर्गते

३ खण्डभेदे पु॰
“ऐन्द्रं कशेरु-शकलं किल ताम्रपर्णमन्यद्गभस्तिमदतश्च कुमारिकाख्यम्। नागं च सौम्यमिह वारुणमन्त्यखण्डं गान्धर्वसंज्ञमितिभारतवर्षमध्ये” सि॰ शि॰। पुराणसर्वस्वे विष्णुपुराणेच
“भार-तस्यास्य वर्षस्य नव भेदान्निशामय। इन्द्रद्वीपः कशेरुश्चताम्रवर्णो गभस्तिमान्। नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथवारुणः। अयन्तु (कुमारिकाख्यः) नवमस्तेषां द्वीपः सागर-संवृतः। योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरात्। पूर्व्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः। ब्राह्मणाःक्षत्रियावैश्या मध्ये शूद्राश्च भागशः। इज्यायुद्धवणिज्याद्यैर्वर्त्तयन्तोव्यवस्थिताः। वेदस्मृतिमुखाश्चान्याः पारिपात्रो-द्भवा मुने!। नर्मदासुरसाद्याश्च नद्योविन्ध्यविनिर्गताः। तापीपयोष्णीनिर्व्विन्ध्याकावेरीप्रमुखा नदी। गोदावरी-भीमरथीकृष्णवेन्वादिकास्तथा। सह्यपादोद्भवानद्यः स्मृताःपापभयापहाः। हृतामलाताम्रपर्णीप्रमुखामलयो-द्भवाः। त्रिसामा ऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः। ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः। शतद्रु-[Page1836-a+ 38] चन्द्रभागाद्या हिमवत्पादनिःसृताः। आसां नद्युपनद्यश्चसन्त्यन्याश्च सहस्रशः। पश्चिमे कुरुपञ्चालमध्वदेशादयो-जनाः। पूर्व्वदेशादिकाश्चैव कामरूपनिवासिनः। ओड्राःकलिङ्गमगधा दाक्षिणात्याश्च सर्व्वशः। तथाऽपरान्ताः सौ-राष्ट्राः शुद्धाभीरास्तथार्बुदाः। मारुकामालवाश्चैव पारिपात्र-निवासिमः। सौवीराः सेन्धवा हूणाःशाल्वाः शाकलवा-सिनः। मद्राभार्गास्तथाम्वष्ठाः पारसीकादयस्तथा। आसां पिबन्तः सलिलं वसन्ति सहिताः सदा। चत्रारि भार-ते वर्षे युगान्यत्र महामुने!। कृतं त्रेता द्वापरञ्च कलिश्चा-न्थत्र न क्वचित्। तपस्तप्यन्ति मुनयोजुह्वते चात्र यज्विनः। दानानि चात्र दीयन्ते परलीकार्थमादरात्। पुरुषैर्यज्ञ-पुरुषो जम्बुद्वीपे सदेज्यते। तत्रापि भारतं श्रेष्ठंजम्बुद्वीपे महामुने!। यतो हि कर्मभूरेषा ततोऽन्या-भोगभूमयः। अत्र जन्मसहस्राणां सहस्रैरपि स-त्तमः। कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात्। गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागेस्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषाः सुरत्वात्। कर्माण्यसं कल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्म-रूपे। अवाप्य तां कर्म्ममहीमनन्ते तस्मिल्लं यं येत्वमलाः प्रयान्ति। जानीम नैतत् क्व वयंविलीने स्वर्ग-प्रदे कर्म्मणि देहबन्धम्। प्राप्याथ धन्थाः खलु तेमनुष्या ये भारते चेन्द्रियसङ्गहीनाः। नववर्षन्तु मैत्रेय!जम्बुद्वीपमिदं मया। लक्षयोजनविस्तारं संक्षेपात् क-थितं मया”

४ पृष्ठदण्डस्थ्नि पुंन॰ हला॰ स्वार्थे कन्। पृष्ठास्थिभेदे स्त्री अमरः। तृणकंन्देऽपि स्त्री रत्नमाला
“कशेरुकञ्चातियुक्तं श्लेषकोपकं यथाह सुश्रुतः। दिवा-स्वप्नेत्याद्युपक्रमे
“कशेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्य-शनप्रभृतिभिः श्लेष्मा कोपमापद्यते”। एतद्रसश्च कूलचर-मांसभोजनेऽनुपानम् यथाह अनुपानवर्गे सुश्रुतः
“कूल-चराणां शृङ्गाटककशेरुकासवः”। इदञ्च सुश्रुते मधुरवर्गेउक्तम्। तद्वाक्यं मधुरवर्गे दृश्यम्। एतस्य श्लेष्मपित्तप्रकोपकत्वेनकृमिकारित्वमुक्तम् सुश्रु॰
“माषपिष्टान्नद्विदल-विसशालूकशेरुकैरित्युपक्रमे
“श्लेष्मा पित्तं च कुप्यति। कृमीन् बहुविधाकारान् करोति विविधाश्रयान्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कशेरु¦ mn. (-रुः-रु) The back bone. f. (-रूः) A kind of grass, (Scirpus kysoor.) m. (-रुः) One of the nine divisions of Jambu Dwipa. E. क sound, शृ to harm, ऊ or उ Unadi affix, and एरङ् substituted for the radical vowel.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कशेरु n. m. (fr. क, water or wind , + शॄUn2. i , 90 ; also written कसेरु)the back-bone L.

कशेरु f( ऊस्)n. ( Un2. i , 90 )the root of Scirpus Kysoor (a kind of grass with a bulbous root) Sus3r.

कशेरु m. one of the nine divisions of भारतवर्षHariv. 6793 VP. Ra1jat.

कशेरु f. N. of the daughter of त्वष्टृHariv. 6793 ( v.l. )

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--approached by केशिध्वज to give him a form of expiation. Vi. VI. 6. १५.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

KAŚERU : A lovely daughter of Tvaṣṭā, the Prajāpati. Narakāsura abducted Kaśeru when she was fourteen years old. She was one of the virgins married by Śrī Kṛṣṇa who won a victory over Narakāsura. (M.B. Sabhā Parva, Chapter 38, Dākṣiṇātya Pāṭha).


_______________________________
*6th word in right half of page 395 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कशेरु&oldid=495495" इत्यस्माद् प्रतिप्राप्तम्