सामग्री पर जाएँ

कश्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कश्यम्, क्ली, (कशां अर्हतीति । कशा + दन्तादित्वात् । ५ । १ । ६६ । यत् ।) अश्वमध्यभागः । (कशति अनेन । कश + बाहुलकात् करणे यत् ।) मद्यम् । यथा, -- मार्कण्डेयपुराणे १०४ । ३ । “ब्रह्मणस्तनयो योऽभूत् मरीचिरिति विश्रुतः । कश्यपस्तस्य पुत्त्रोऽभूत् कश्यपानात् स कश्यपः” ॥ कशार्हे त्रि । इत्यमरः । ३ । १ । ४४ ॥

"https://sa.wiktionary.org/w/index.php?title=कश्यम्&oldid=125638" इत्यस्माद् प्रतिप्राप्तम्