कषणः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कषणः, त्रि, (कष्यते विस्वाद्यते । कष् + कर्मणि ल्युट् ।) अपक्वः । इति शब्दचन्द्रिका ॥ (पुं, कषत्यत्र । अधिकरणे ल्युट् । निकषोपलम् । यथा, आर्य्यामप्तशती ४१८ । “भूषणतां भजतः सखि ! कषणविशुद्वस्य जात- रूपस्य” ॥ भावे ल्युट् । क्ली, कण्डूयनम् । यथा किराते ५ । ४७ । “कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः” ॥ “इहाद्रौ कषणेन कण्डूयणेन यः कम्पस्तेन निरस्ता महाहयो येभ्यस्तैः” ॥ इति तट्टीकायां मल्लिनाथः ॥)
