कषाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषायः, पुं, क्ली, (कषति कण्ठम् । कष् + आयः ।) रसविशेषः । कषा इति भाषा । पृथिव्यनिलगुण- बाहुल्यात्तस्योत्पत्तिः । इति शिवदासः ॥ (यथा, मनुः ११ । १५३ । “शुक्तानि च कषायांश्च पीत्वामेध्यान्यपि द्विजः” ॥) तत्पर्य्यायः । तुवरः २ तद्युक्ते त्रि । इत्यमरः । १ । ५ । ९ ॥ कुवरः ३ तूरवः ४ । इति तट्टीका ॥ अस्य गुणाः । व्रणादिरोपणत्वम् । ग्राहित्वम् । शोषणत्वम् । वायुकोपकारित्वञ्च । अतियुक्तस्य तस्य गुणः । मलमूत्रग्रहाध्मानहृत्पीडाक्षेपणादि- रोगकारित्वम् । अन्यच्च । “कषायः शोषणः स्तम्भी व्रणपाकार्त्तिनाशनः । कफशोणितवातघ्नी रूक्षः शीतो गुरुस्तथा” ॥ इति राजवल्लभः ॥ अपि च । “कषायनामा निरुणद्धि शोफं वर्णन्तनोर्दीपनपाचनश्च । सत्त्वापहोऽसौ शिथिलत्वकारी निषेवितः पाण्डु करोति मात्रम्” ॥ इति राजनिर्घण्टः ॥ * ॥ पाचनादिः । तस्य पूर्ण- वीर्य्यं याममेकं तिष्ठति । तत्पर्य्यायः । क्वाथः २ निर्य्यूहः ३ । स तु पञ्चविधो यथा । स्वरसः १ कल्कः २ क्वथितः ३ शीतः ४ फाण्टम् ५ । इति वैद्यकपरिभाषा ॥ * ॥ (“जिह्वां कण्ठं ग्रसति नितरां ग्राहकश्चातिसारे श्लेष्मव्याधेरुपशमकरः श्वासकासापहर्त्ता । हिक्कां शूलं हरति नितरां शोधनं स्याद्व्रणानां प्रोक्तश्चायं समधिकगुणो नाम श्रेष्ठः कषायः” ॥ इति हारीते प्रथम स्थाने ७ अध्याये ॥ “कषायो जडयेज्जिह्वां कण्ठस्रोतो विबन्धकृत्” ॥ “कषायः पित्तकफहा गुरुरस्रविशोधनः । पीडनो रोपणः शीतः क्लेदमेदो विशोषणः । आमसंस्तम्भनो ग्राही रूक्षोऽतित्वक्प्रसादनः ॥ करोति शीलितः सोऽति विष्टम्भाध्मानहृद्रुजः । तृट्कार्श्य पौरुषभ्रंशस्रोतोरोधमलग्रहान्” ॥ इति वाभटे सूत्रस्थाने १० अध्याये ॥

कषायः, पुं, (कष् + आयः ।) श्योणाकवृक्षः । इति धरणी ॥ रागः । इत्यमरटीकायां स्वामी ॥ (यथा छान्दग्योपनिषदि ।

कषायः, त्रि, (कष + आयः ।) सुरभिः । (यथा मेघ- दूते ३३ । “प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः” ॥) लोहितः । इति मेदिनी ॥ (यथा कुमारे ३ । ३२ । “चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज” ॥) रक्तपीतमिश्रितवर्णः । इत्यमरटीकायां स्वामी ॥ धववृक्षः । इति राजनिर्वण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषाय पुं-नपुं।

कषायरसः

समानार्थक:तुवर,कषाय

1।5।9।1।2

तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः। तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु॥

पदार्थ-विभागः : , गुणः, रसः

कषाय पुं-नपुं।

निर्यासः

समानार्थक:कषाय

3।3।153।2।1

विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि। निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषाय¦ पुंन॰ कषति कण्ठम्, कष--आय--अर्द्धर्चादि। (कषा)

१ रसभेदे

२ तद्वति त्रि॰। तस्य कारणगुणादिसुश्रुते उक्तं यथा--
“तत्र शैत्यरौक्षलाघववैशद्यवैष्टम्भ्य-गुणलक्षणोवायुस्तस्य समानयोनिः कषायो रसः सोऽस्यशैत्यात् शैत्यं वर्द्धयति, रौक्ष्यात् रौक्ष्यं, लाघवात्लाघवं, वैशद्यात् वैशद्यं, वैष्टम्भ्यात् वैष्टम्भ्यमिति”
“योवक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नातिहृदयं कषति पीडयति च स कषायः”।
“कषायःसंग्राहकोरोपणः स्तम्भनः शोधनालेखनः शोषणःपीडनः क्लेदीपशोषणश्चेति। स एवंगुणोऽत्येकएवात्यर्थ-मुपसेव्यमानः पीडास्यशोषोदराध्मानवाक्यग्रहमन्या-स्तम्भगात्रस्फुरणचुमुचुमायनाकुञ्चनक्षेपणप्रभृतीन् जन-यति” इति च। कषायवर्गश्च।
“न्यग्रोधादिरम्ब-ष्ठादिः प्रियङ्ग्वादीरोध्रादिस्त्रिफलाशल्लकीजम्ब्वाम्रबकुलतिन्दु-कफलिनीकतकशाकपाषाणभेदकवनस्पतिफलानि सालसा-रादिश्च प्रायशः कुरवककोविदारकजीवन्तीचिल्लीपालङ्क्यसुनिषण्णकप्रभृतीनि नीवारकादयोमुद्गादयश्च समासेन कषा-योवर्गः” सुश्रु॰। अस्योत्पत्तिकारणमपि तत्रोक्तं यथा-
“तस्मादाप्योरसः परस्परसंसर्गात् परस्परानुग्रहात् पर-स्परानुप्रवेशाच्च सर्वेसु सर्वेषां सान्निध्यमस्त्युत्कर्षापकर्षात्तुग्रहणम्। स खल्वाप्योरसः शेषभूतसंसर्गाद्विदग्धाः षोढाविभज्यते” इत्युपक्रम्य। पृथिव्यनिलगुणबाहुल्यात् कषायःइति। तत्र तस्य च पित्तकफघ्नत्वमपि तत्रैवोक्तम्
“मघुरातक्तकषायाः पित्तघ्नाः कटुतिक्तकषायाः श्लेष्मघ्नाः” इति।
“केचिदाहुरग्नीषोमीयत्वाज्जगतो रसाः द्विविधाःसौम्या आग्नेयाश्च, तत्र मधुरतिक्तकषायाः सौम्याः,कट्वम्ललवणा आग्नेयाः मधुराम्ललवणाः स्निग्धाः गुर-[Page1839-a+ 38] वश्च कटुतिक्तकषाया रूक्षा लघवश्च। सौम्याः शीताआग्नेयाश्चीष्णाः” इति सुश्रुते अन्यमतेनोक्त्वा तच्च दूष-यित्वा पूर्वदर्शितमतमादृतम् भावप्र॰ तदेतद्विवृतम् यथा-
“कषायो रोपणो ग्राही स्तम्भनः शोधनस्तथा। लेखनःपीडनः सौम्यः शोषणो वातकोपनः। कफशोणि-तपित्तघ्नो रूक्षः शीतो लघुर्मतः। त्वक्प्रसादनमालस्यस्तम्भनो विषदो मतः। जिह्वाया जाड्यकृत्कण्ठस्रोतसाञ्च विबन्धकृत्”। रोपणः व्रणस्य, स्तम्भनोगात्राणां, शोधनो व्रणस्य, लेखनो व्रणाद्युत्-सन्नमांसस्य, शोषणोव्रणमज्जादीनाम्। पीडनोहृदयस्य वातकारित्वात्, सौम्यः सोमादुत्पन्नः”। अथा-तियुक्तस्य कषायस्य गुणास्तत्रोक्ताः
“सोऽतिचयुक्तो गुदा-ध्मानहृत्पीडाक्षेपणादिकृत्”। अभयायामत्र विशेषः।
“प्रायशः स्तम्भनं प्रोक्तं कषायमभयां विना”।

३ राग-द्वेषादिदोषे।
“आहारशुद्धौ सत्वशुद्धिः सत्वशुद्धौ ध्रुवास्मृतिः, स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मैमृदितकषायाय तमसः पारं दर्शयति” छा॰ उ॰।
“तस्मै मृदितकषायाय वार्क्षारादिरिव कषायो राग-द्बेषादिदोषः, सत्वस्य रञ्जनरूपत्वात् ज्ञानवैराग्या-भ्यासरूप्रक्षारेण क्षालितोमृदितो विनाशितो यस्य नार-दस्य तस्मै” भा॰।
“कषाये कर्मभिः पक्वे ततो ज्ञानंप्रजायते” वेदा॰ प॰ कर्मणां रागद्वेषादिदोषरूपकषा-यनाशकत्वमुक्तम्।
“लयविक्षेपाभावेऽपि चित्तवृत्तेः रागा-दिवासनया स्तकीभावात् अखण्डवस्त्वनवलम्बनं कषायः” इति वेदान्तसारोक्तलक्षणे

४ निर्विकल्पकसमाधिविघ्नभेदे
“सकषायं विजानीयात् शमप्राप्तं न चालयेत्”।
“सकषायं कलुषितं मे चित्तमिति, विज्ञाय शमेऽद्वितीयात्मनि निवेशयेत्” विद्वन्म॰।

५ रक्ते अनुरागान्विते

६ सुरभौ

७ अपटौ च केशवः।
“चूताङ्कुरास्वादकषायकण्ठः” कुमा॰।
“कषायः रक्तः” मल्लि॰।
“निद्रा-कषायितविपाटललोचनेषु” माघः
“कषायितान्यपटू-कृतानि” मल्लि॰।

८ रागे

९ क्वाथभेदे

१० निर्यासे च
“रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे” वैज॰। कषायः जातोऽस्य तार॰ इतच्, तत्करोतीति णिच्-कर्मणि क्तवा। कषायित जातकषाये कषायीकृते च त्रि॰
“अमुनैव कषायितस्तनी” कुमा॰
“कषायितः रञ्जितःमल्लि॰।

११ विलेपने

१३ अङ्गरागे च विश्वः।
“कर्ण्णार्पितो-लोध्रकषायरूक्षे” कुमा॰
“कषायेण विलेपनेन” मल्लि॰। [Page1839-b+ 38] क्वषायश्च सरसादिकः पञ्चविधः भावप्र॰ दर्शितो यथा।
“सरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ। ज्ञेयाःकषायाः पञ्चैते लघवः स्युर्यथोत्तरम्” तेषां पञ्चानां लक्ष-णानि तु तत्तच्छब्दे दृश्यानि।

१३ श्योनाकवृक्षे पु॰जटाघरः।

१४ कलियुगे अमरटीका रागदीषहेतुत्वात्तस्यतथात्वम्

१५ लोहितवर्ण्णयुक्ते त्रि॰ मेदि॰

१६ रक्तपीत-मिश्रितवर्णे अमरटीका।

१७ धववृक्षे पु॰ राजनि॰

१८ क्षुद्र-दुरालभायां स्त्री राजनि॰। देशे गम्ये अस्मात्पानशब्दस्य णत्वम्। कषायपाणोदेशभेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषाय¦ mfn. (-यः-या-यं)
1. Astringent.
2. Fragrant.
3. Red, dull red.
4. Brown, of a colour composed of red and yellow. mn. (-यः-यं)
1. An astringent flavour or taste.
2. A decoction or infusion.
3. Gum, resin, extract, exudation from a tree, &c.
4. Plastering, anointing.
5. Colouring or perfuming the person.
6. Attachment to worldly objects. m. (-यः)
1. A plant, (Bignonia Indica.)
2. Passion, emotion. f. (-या) A plant, a small sort of Hedysarum. E. कष् to injure, आय aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषाय [kaṣāya], a.

Astringent, Ś.2.

Fragrant, स्फुटित- कमलामोदमैत्रीकषायः Me.31; U.2.21; Mv.5.41.

Red, dark-red; चूताङ्कुरास्वादकषायकण्ठः Ku.3.32.

(Hence) Sweet-sounding, Māl.7; cf. also सगद्गदं बाष्पकषायकण्ठः Bu. Ch.1.68.

Brown.

Improper, dirty.

यः, यम् Astringent flavour of taste (one of the sixrasas): see कटु; यो वक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नाति हृदयं कषति पीडयति च स कषायः Suśr. cf. also 'बध्नातीव च यः कण्ठं कषायः स विकास्यपि' । Ibid.

The red colour.

A decoction with one part of a drug mixed with four, eight, or sixteen parts of water (the whole being boiled down until one quarter is left); Ms.11.153.

Plastering, smearing; कर्णार्पितो लोध्रकषायरूक्षे Ku.7.17; anointing.

Perfuming the body with unguents; शिरोरुहैः स्नानकषायवासितैः Ṛs.1.4.

Gum, resin, extract or exudation from a tree.

Dirt, uncleanness.

Dulness, stupidity; विगतभयकषायलोभमोहः Mb.12.179.26.

Attachment to worldly objects; Ch. Up.7.26.2; भक्त्या निर्मथिताशेषकषायधिषणो$र्जुनः Bhāg.1.15.29.

Decay, ruin.

यः Passion, emotion.

Kaliyuga.-Comp. -कृत् m. the लोध्र tree (Symplocos racemosa)-वसनम् The yellowish-red garment of monks, mendicants.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषाय mfn. astringent MBh. xiv , 1280 and 1411 R. Sus3r. Pan5cat. BhP.

कषाय mfn. fragrant Megh. 31

कषाय mfn. red , dull red , yellowish red (as the garment of a Buddhist भिक्षु) MBh. Hariv. Mr2icch. Ya1jn5.

कषाय mn. ( g. अर्धर्चा-दि)an astringent flavour or taste Sus3r.

कषाय mn. a yellowish red colour Ya1jn5. i , 272 Ka1s3. on Pa1n2. 4-2 , 1

कषाय mn. an astringent juice , extract of juice S3Br. Ka1tyS3r. Mn. xi , 153

कषाय mn. a decoction or infusion Sus3r. (the result of boiling down a mixture consisting of one part of a drug and four or , according to some , eight or sixteen parts of water until only one quarter is left Sus3r. )

कषाय mn. any healing or medicinal potion Bhpr.

कषाय mn. exudation from a tree , juice , gum , resin L.

कषाय mn. ointment , smearing , anointing L.

कषाय mn. colouring or perfuming or anointing the person with cosmetics MBh.

कषाय mn. dirt , filth

कषाय mn. stain or impurity or sin cleaving to the soul ChUp. BhP.

कषाय mn. dulness , stupidity Veda1ntas.

कषाय mn. defect , decay , degeneracy (of which , according to Buddhists , there are five marks , viz. आयुस्-क्, दृष्टि-क्, क्लेश-क्, सत्त्व-क्, कल्प-क्)

कषाय mn. attachment to worldly objects W.

कषाय m. red , redness

कषाय m. a kind of snake Sus3r. ii , 265 , 14

कषाय m. emotion , passion( राग, of which the जैनs reckon four kinds HYog. iv , 6 and 77 )

कषाय m. the कलि-युगL.

कषाय m. the tree Bignonia Indica R. ii , 28 , 21

कषाय m. N. of a teacher( v.l. कशाय) g. शौनका-दि

कषाय mfn. ( अस्, आ, अम्)the tree Grislea tomentosa L.

कषाय n. a dull or yellowish red garment or robe MBh. ii , 675 (See. काषाय, पञ्च-कषाय; अ-निष्कषाय, full of impure passions MBh. xii , 568. )

"https://sa.wiktionary.org/w/index.php?title=कषाय&oldid=495510" इत्यस्माद् प्रतिप्राप्तम्