कषायः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कषायः, पुं, क्ली, (कषति कण्ठम् । कष् + आयः ।) रसविशेषः । कषा इति भाषा । पृथिव्यनिलगुण- बाहुल्यात्तस्योत्पत्तिः । इति शिवदासः ॥ (यथा, मनुः ११ । १५३ । “शुक्तानि च कषायांश्च पीत्वामेध्यान्यपि द्विजः” ॥) तत्पर्य्यायः । तुवरः २ तद्युक्ते त्रि । इत्यमरः । १ । ५ । ९ ॥ कुवरः ३ तूरवः ४ । इति तट्टीका ॥ अस्य गुणाः । व्रणादिरोपणत्वम् । ग्राहित्वम् । शोषणत्वम् । वायुकोपकारित्वञ्च । अतियुक्तस्य तस्य गुणः । मलमूत्रग्रहाध्मानहृत्पीडाक्षेपणादि- रोगकारित्वम् । अन्यच्च । “कषायः शोषणः स्तम्भी व्रणपाकार्त्तिनाशनः । कफशोणितवातघ्नी रूक्षः शीतो गुरुस्तथा” ॥ इति राजवल्लभः ॥ अपि च । “कषायनामा निरुणद्धि शोफं वर्णन्तनोर्दीपनपाचनश्च । सत्त्वापहोऽसौ शिथिलत्वकारी निषेवितः पाण्डु करोति मात्रम्” ॥ इति राजनिर्घण्टः ॥ * ॥ पाचनादिः । तस्य पूर्ण- वीर्य्यं याममेकं तिष्ठति । तत्पर्य्यायः । क्वाथः २ निर्य्यूहः ३ । स तु पञ्चविधो यथा । स्वरसः १ कल्कः २ क्वथितः ३ शीतः ४ फाण्टम् ५ । इति वैद्यकपरिभाषा ॥ * ॥ (“जिह्वां कण्ठं ग्रसति नितरां ग्राहकश्चातिसारे श्लेष्मव्याधेरुपशमकरः श्वासकासापहर्त्ता । हिक्कां शूलं हरति नितरां शोधनं स्याद्व्रणानां प्रोक्तश्चायं समधिकगुणो नाम श्रेष्ठः कषायः” ॥ इति हारीते प्रथम स्थाने ७ अध्याये ॥ “कषायो जडयेज्जिह्वां कण्ठस्रोतो विबन्धकृत्” ॥ “कषायः पित्तकफहा गुरुरस्रविशोधनः । पीडनो रोपणः शीतः क्लेदमेदो विशोषणः । आमसंस्तम्भनो ग्राही रूक्षोऽतित्वक्प्रसादनः ॥ करोति शीलितः सोऽति विष्टम्भाध्मानहृद्रुजः । तृट्कार्श्य पौरुषभ्रंशस्रोतोरोधमलग्रहान्” ॥ इति वाभटे सूत्रस्थाने १० अध्याये ॥
कषायः, पुं, (कष् + आयः ।) श्योणाकवृक्षः । इति धरणी ॥ रागः । इत्यमरटीकायां स्वामी ॥ (यथा छान्दग्योपनिषदि ।
कषायः, त्रि, (कष + आयः ।) सुरभिः । (यथा मेघ- दूते ३३ । “प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः” ॥) लोहितः । इति मेदिनी ॥ (यथा कुमारे ३ । ३२ । “चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज” ॥) रक्तपीतमिश्रितवर्णः । इत्यमरटीकायां स्वामी ॥ धववृक्षः । इति राजनिर्वण्टः ॥
